Book Title: Praman Varttikam
Author(s): Rahul Sankrutyayan
Publisher: Kitab Mahal

View full book text
Previous | Next

Page 606
________________ ५८८ प्रमाणवात्तिकस्ववृत्तिटीका (१।३१८) प्रवृत्ते प्रमाणान्तरमन्विष्यते। किन्तु सैवागमस्य प्रवृत्तिर्न ज्ञायत इति चेत् । स्वयं प्रसाधने समर्थस्य तदागमोपधानं कमतिशयं पुष्णाति। असमर्थन्तु आगम527b प्रवृत्तिमपि नैव साधयिष्यति। सा चातीन्द्रियेणार्थेन सम्बद्धा प्रागमप्रवृत्तिरती'न्द्रिया कथमन्येन सिद्धा। अन्यच्च एवं आगमलक्षणं स्यात। तथा हि। यस्य प्रमाणसंवादि वचनं तत्कृतं वचः। स आगम इति प्राप्तं निरर्थाऽपौरुषेयता ॥३१८॥ तुल्येऽपि आगमवादे प्रमाणबलादागमस्यापि क्वचिदर्थ प्रागमत्वे प्रमाणसंवादिवचनं आगमलक्षणं स्यात् । नापुरुषक्रिया। तस्याः सर्वार्थेषु तुल्यत्वेऽपि नेत्यादि परः। न वै आगमेतीन्द्रियेष्वर्थेषु प्रवृत्ते प्रत्यक्षादिप्रमाणमागर्मविषयेन्विष्यते। येनायन्दोषः। स्यात्। ततश्च केवलात् प्रतिपत्तेरसाधनमेवागमः स्यादिति। किन्तु सैवागमस्यातीन्द्रियेष्वपि प्रवृत्तिन ज्ञायते। तेनागमप्रवृत्तिः प्रत्यक्षादिकमपेक्षत इति चेत् । स्वयमित्यादिप्रतिवचनन्तदास्य प्रत्यक्षादेः स्वयमतीन्द्रियार्थप्रसाधने समर्थस्य तदागमो पधानन्तस्यागमस्योपधानं सन्निधानं प्रत्यक्षादेः कमतिशयं पुष्णाति येनागमप्रवृत्तिमतीन्द्रियर्थे ज्ञापयति । ___ अथातीन्द्रिये प्रत्यक्षाद्यसमर्थ (1) ततो समर्थन्तु प्रत्यक्षादि आगमप्रवृत्ति मपि नैव साधयिष्यति यतो यथा स्वर्गादिसाधकमतीन्द्रियन्तथा सा चातीन्द्रिये207b णार्थेन सम्बद्धा आगमप्रवृत्तिरतीन्द्रिया। कथमन्येन प्रत्यक्षादिना सिद्धा। नैव सिद्धा। येन तदर्थं प्रत्यक्षादिरन्विष्यत इति यत्किञ्चिदेतत्। __ बहुष्वपि व्याख्यातृषु यः प्रमाणं प्रत्यक्षादिकं संस्यन्दयति तस्य भाषितं गृह्यत इति ब्रुवतो पौरुषेयत्वादागमलक्षणादन्यश्चैवमागमलक्षणं स्यात्। एतदेवाह । तथा हीत्यादि। यस्य पुरुषस्य वचनं प्रमाणसम्वादि। तत्कृतन्तेन पुरुषेण संस्कृतं वच आगम इति प्राप्तं । वचनस्य च संस्कारस्तदर्थस्य प्रमाणानुगृहीतत्वख्यापनं । इदन्तदन्यदागमलक्षणं । तथा च निरर्था व्यर्थाऽपौरुषेयता आगमलक्षणत्वेनेष्टा। तुल्येत्यादिना व्याचष्टे। यश्च प्रमाणसम्वादिवचनेन पुरुषेणार्थः कल्पितो यश्चेतरेण तयोरर्थयोस्तुल्येप्यपौरुषेयत्वागमवादे सति प्रमाणबलादागमस्यापौरुषेयस्यापि क्वचिदर्थे प्रमाणसम्वादिन्यागमत्व इष्यमाणेऽग्निहोत्रादिवाक्यानां प्रमाणसम्वाद आगमलक्षणं स्यात्। नापुरुषक्रिया। अपौरुषेयत्वमागमलक्षणं न स्यात्। किङ्कारणं (1) तस्या अपुरुषक्रियाया अभिमताऽनभिमतेषु पुरुषोपदिष्टेषु सर्वार्थेषु तुल्यत्वेपि प्रमाणेनाबाधनात् प्रतिपत्तेरिष्टत्वात् ।

Loading...

Page Navigation
1 ... 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642