Book Title: Praman Varttikam
Author(s): Rahul Sankrutyayan
Publisher: Kitab Mahal

View full book text
Previous | Next

Page 604
________________ ५८६ प्रमाणवात्तिकस्ववृत्तिटीका (१।३१७) अथ कुतश्चिद् बुद्धीन्द्रियादीनां स एव वेत्ति नापरः। तस्य कुतोऽयमतीन्द्रियज्ञानातिशयः । तथाऽन्योऽपि देशकालस्वभावविप्रकृष्टानामर्थानां द्रष्टा किमसम्भवी दृष्टः। यतो न हि तत्प्रतिक्षेपसाधनानि कानिचित् नैनं उपलीयन्ते । तत्साधन सम्भवेऽपि यथायमस्य विशेषः, तथान्यस्यापि स्यादित्यनभिनिवेश एव युक्तः । 527a यस्य प्रमाणसंवादि वचनं सोर्थ विद्यादि । न अत्यन्तपरोक्षेषु प्रमाणस्यास्ति सम्भवः ॥३१७।। नापरः। अपरोपि पुरुषो जैमि न्याद्यविशिष्टो न तत्त्वमाचष्ट इति भेदव्यवस्थानं न न्याय्यमयुक्तित्वात्। अथ कुतश्चिदनिर्देश्यरूपाद् बुद्धीन्द्रियादीनाम् (1) आदिशब्दादभ्यासस्यातिशयात् कारणात् स एव जै मि नि प्रभृतिर्वेदार्थम्वेत्ति नापरः: प्राकृतः पुरुष इश्तीष्यते। तदा तस्य जैमिनि प्रभृतेः कुतोयमतीन्द्रियज्ञानातिशयः । अतीन्द्रियस्य . वेदार्थतत्वस्य ज्ञानातिशयोन्यैरविदिततत्त्वैरविशिष्टस्य । भवतु वा जै मि नि प्रभृतिः पुरुषोतीन्द्रियार्थस्य वेत्ता। तथा जैमि न्यादिवदन्योपि पुरुषातिशयो बौ द्धा द्य भिमतो देशकालस्वभावविप्रकृष्टानामर्थानां द्रष्टा। किमसम्भवी । कस्मादविद्यमानो दृष्टो येन प्रतिक्षिप्यते। सोप्यतीन्द्रियार्थदयस्त्वितीष्यतां। न चेदभिमतोपि जै मि न्यादिर्मा भूत्। यतो न हि तत्प्रतिक्षेपसाधनानि। बौद्धा द्यभिमतपुरुषातिशयप्रतिक्षेपसाधनानि पुरुषत्वादीनि कानिचित् सन्ति (1) यानि नैनम्वेदार्थविवेककारिणं जै मि नि प्रभृति नोपलीयन्ते । न विषयीकुर्वन्ति। किन्तूपली यन्त एव। तेषामपि पुरुषत्वादियोगात्। अथ पुरुषत्वादिसाधनसम्भवेपि जैमिन्यादेविशेष इष्यते। तदा यथायमती- . न्द्रियवेदार्थविवेचनलक्षणे विशेषोस्य जैमिनिप्रभृतेरिष्टः। तत्साधनसम्भवेपीति । तस्यातीन्द्रियार्थदर्शिपुरुषप्रतिक्षेपसाधनस्य पुरुषात्वादेः सम्भवेपि। तथान्यस्यापि पुरुषस्यातीन्द्रियार्थदर्शनं स्यादित्यनभिनिवेश एव भवतां मी मां स का नां युक्तः । ___ नातीन्द्रियार्थदर्शीति कृत्वा जै मि नि प्रभृतेर्वेदार्थज्ञानमिष्टमपि तु। यस्य वाक्यं प्रमाणसम्वादि । स पुरुषो वेदार्थविद् यदीष्यते। ___ जैमि नि प्रभृतेरेव च वेदार्थविवेचनं कुर्वतो वचनं प्रमाणसम्वादीति परो मन्यते। 207a नेत्या द्या चा र्यः। नेदमुत्तरं युक्तं यास्मान्नह्यत्यन्तपरोक्षेषु वेदार्थेषु स्वर्गा दिसाधनत्वेषु प्रमाणस्यास्ति सम्भवः ।

Loading...

Page Navigation
1 ... 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642