Book Title: Praman Varttikam
Author(s): Rahul Sankrutyayan
Publisher: Kitab Mahal

View full book text
Previous | Next

Page 614
________________ ५९६ __ प्रमाणवार्तिकस्ववृत्तिटीका (१॥३२२) वान्यथाप्युपदिशेदिति। श्रूयन्ते हि कश्चित् पुरुषरुत्सन्नोद्धृतानि शाखान्तराणि। इदानीमपि कानिचिद् विरलान (?)ध्येतृकाणि। तद्वत्प्रचुराध्येतृकाणामपि कस्मिंश्चित् काले कथंचित् संहारसंभवात् । पुनः संभावितपुरुषप्रत्ययात् प्रचुरतोपगमनसंभावनासम्भवाच्च । तेषाञ्च पुनः प्रतानयितणां पुरुषाणां कदाचिदधीतविस्मृताध्ययनानां अन्येषां सम्भावनाभ्रंशभयादिनाऽन्यथोपदेशसम्भवात् । तत्प्रत्ययाच्च तद्भक्तानामविचारेण प्रतिपत्तेः बहुष्वप्यधे (?ध्ये) तदनृतवादित्वमिहापि वेदार्थसम्प्रदायानुक्रमे। जैमि न्यादिना पुरुषेण क्रियमाणे किन्न प्रत्यवेक्षते सम्भवति न वेति । यस्मात् स एव पुरुषो रागादिमान् जै मि निप्रभृतिर्वेदम्वेदार्थम्वोपदिशन् रागाद्युपप्लवात् कारणादन्यथाप्युपदिशेदिति मिथ्याशिंका नैव निवार्यते। आशंकाकारणान्येव दर्शयन्नाह। श्रूयन्ते हीत्यादि कश्चित् पुरुषर्या ज्ञ व ल्क्य प्रभृतिभिरुत्सन्नोद्धृतानि। उत्सन्नान्यन्तरितानि सन्ति वेदस्य शाखान्तराणि। उद्धृतानि स्मृत्वा स्मृत्वा पुनरारचितानि। तानि च यथातत्त्वं स्मृत्वोद्धृतानीति किमत्र प्रमाणं। इदानीमपि कानिचिद् आह र क प्रभतीनि शाखा न्तराणि विरलाध्यतृकाणि। स्वल्पाध्येतृकानि (?णि) दृश्यन्ते। ते कतिपयाध्येतारो न समारोप्योपदिशन्तीति किमत्र प्रमाणं। यथा विरलाध्येतृकाणि शाखान्तराणि दृश्यन्ते। तद्वत् प्रचुराध्यतृकाणामपि बहुतराध्येतृकाणामपि शाखान्तराणां कस्मिंश्चिदित्यतिक्रान्ते काले संसारसम्भवात्। अल्पाध्येतृकत्वसम्भावनासम्भवात। तेषां प्रागपि प्रचराध्येतकत्वे प्रमाणाभावात् । इदानीन्तर्हि कथं प्रचुराध्येतृकाणि तानीत्यत आह। पुनरित्यादि । पुनः कालान्तरेणाप्तत्वेन सम्भावितस्य पुरुषस्य प्रत्ययात् प्रामाण्यात् तदन्यासम्भावितपुरुषाध्ययनवैपरीत्येन संहृतानामध्येतृणां प्रचुरतोपगमनस्य बाहुल्योपगमनस्य या सम्भावना तस्याः सम्भवादनिश्चयः। किञ्च । ये ते पुरुषा विरलीभूताः शाखान्तराणां प्रतानयितारस्तेषां प्रतानयितॄणामन्यथोप देशसम्भवादिति सम्बन्धः। तथा चानाश्वास इत्यभिप्रायः । कीदृशानां प्रतानयितृणां कदाचिदधीतविस्मृताध्ययनानां। अधीतं सद् विस्मृतमध्ययनं यैस्ते तथोक्ताः। यथाधीतं विस्मृतास्सन्तस्तेऽन्यथापि प्रतानयेयुरित्यर्थः । केन कारणेनेत्याह। अन्येषान्तदभिप्रसन्नानामध्येतृणान्तस्मिन्नध्यापयितरि। या महत्वसम्भावना। तस्या भ्रंशभयात्। यद्यहमन्यथापि नोपदिशेयं । नूनमेते मय्याप्तसम्भावनां जहा (? जह) तीति। आदि शब्दादाहोपुरुषादिकात् अन्यथोपदेशसम्भवः ।

Loading...

Page Navigation
1 ... 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642