Book Title: Praman Varttikam
Author(s): Rahul Sankrutyayan
Publisher: Kitab Mahal
View full book text
________________
प्रमाणवार्तिकस्ववृत्तिटीका (१३३३७) कारवचनेन दृष्टप्रमाणविरोधस्याप्यत्यन्तपरोक्षेऽर्थेऽविसम्वादानुमान।
सिध्येत्प्रमाणं यद्येवमप्रमाण'मथेह किं । ___ न ह्येकन्नास्ति सत्त्यार्थम्पुरुषे बहुभाषिणि ॥ (३३७)
यथेदमतिदुष्करमत्यन्तसत्त्याभिधानं तथाऽत्यन्तासत्त्याभिधानमपि। तत्रैकस्य ____38a वचनस्य कथञ्चित् संवादेनावशिष्टस्य तद्वचनराशेस्त [थाभावे न कश्चित्
पुरुषो नाप्तः स्यात् ।
त्वान्न तु वार्द्धक्यादीनां।
एवंजातीयकमित्यादिना दृष्टान्तार्थं दार्टान्तिके योजयति। एवंजातीयकमिति बन्धकीप्रतिवचनतुल्यं । एतदत्यन्तपरोक्षेर्थे वेदस्याविसम्वादानुमान (1) किम्भूतस्य वेदस्य शक्यविचारे वस्तुनि दृष्टप्रमाणविरोधस्य। दृष्ट: प्रमाणविरोधोस्येति विग्रहः। [वह्निशीतनोदन] दृष्टान्तेनानुमानं। वह्नः शीतप्रतीकारवचनेन। यथाग्निहिमस्य भेषजमिति वाक्यमविसम्वादि। तथान्यदपि वेदवाक्यमविसम्वादीति।
तत्र धर्मपत्नीस्थानीयो वेदः। विप्रतिपत्तितुल्यन्नित्यस्य पुंसः कर्तृत्वाद्यभिधानं । नेत्रतुल्ये प्रत्यक्षानुमाने। न च दृष्टव्यभिचारायाः पत्न्या वचनं गरीयस्तस्य पुरुषस्य येन [............] यम्विप्रतिपत्ति दृष्ट्वापि स्वदर्शनमप्रमाणीकृत्य तस्या वचनं यथार्थ कुर्यात्। एवम्वेदोक्तार्थबाधकयोः प्रमाणयोरप्रमाण्यं कृत्वा न वेदस्य पत्नीस्थानीयस्य दृष्टव्यभिचारस्य वचनादत्यन्तपरोक्षं प्रतिपद्येमहीति। (३३६)
अत्रैव दोषान्तरमाह। सिध्येदित्यादि। एवमिति यथा दृष्टैकसत्याभिधानमात्रेण यदि सर्वो वेदः। [.......प्र] माणं सिध्येत्तदा सर्वः पुरुषस्सर्वत्राथ प्रमाणं स्यात्। यस्मान्न हि पुरुषे बहुभाषिण्येकं वचनं सत्यार्थ नास्ति (1) किन्त्वस्त्येव।
यथेत्यादिना व्याचष्टे। यथेदमत्यन्तमभिधायित्वं । एकान्तेन सत्यवादित्व
मतिदुष्करं। अत्यन्तदुःखेन क्रियत इति कृत्वा। तथात्यन्तं। सत्याभिधानमति216b दुष्करन्तत्रैवंस्थिते न्याये। एकस्य [...... वच]? नस्य कथंचिदिति का क ता
ली य न्यायेनापि यस्सम्वादस्सत्यार्थत्वन्तेन हेतुना। तस्मादविसम्वादकाद् वचनादविशिष्टस्य तद्वचनराशेरिति यस्य तदेकम्वचनमविसम्वादि दृष्टन्तस्य पुरुषस्य वचनराशेः। तथाभावेऽविसम्वादित्वेऽभ्युपगम्यमाने। न कश्चित् पुरुषो नाप्तः स्यात्। किन्तु सर्व एवाप्त: स्यात् । न चैवं। तस्मान्नैकदेशाविसम्वा[दात्... .... प्रामा] ण्यमिति।
Page Navigation
1 ... 630 631 632 633 634 635 636 637 638 639 640 641 642