________________
५९६ __ प्रमाणवार्तिकस्ववृत्तिटीका (१॥३२२) वान्यथाप्युपदिशेदिति। श्रूयन्ते हि कश्चित् पुरुषरुत्सन्नोद्धृतानि शाखान्तराणि। इदानीमपि कानिचिद् विरलान (?)ध्येतृकाणि। तद्वत्प्रचुराध्येतृकाणामपि कस्मिंश्चित् काले कथंचित् संहारसंभवात् । पुनः संभावितपुरुषप्रत्ययात् प्रचुरतोपगमनसंभावनासम्भवाच्च । तेषाञ्च पुनः प्रतानयितणां पुरुषाणां कदाचिदधीतविस्मृताध्ययनानां अन्येषां सम्भावनाभ्रंशभयादिनाऽन्यथोपदेशसम्भवात् । तत्प्रत्ययाच्च तद्भक्तानामविचारेण प्रतिपत्तेः बहुष्वप्यधे (?ध्ये)
तदनृतवादित्वमिहापि वेदार्थसम्प्रदायानुक्रमे। जैमि न्यादिना पुरुषेण क्रियमाणे किन्न प्रत्यवेक्षते सम्भवति न वेति । यस्मात् स एव पुरुषो रागादिमान् जै मि निप्रभृतिर्वेदम्वेदार्थम्वोपदिशन् रागाद्युपप्लवात् कारणादन्यथाप्युपदिशेदिति मिथ्याशिंका नैव निवार्यते।
आशंकाकारणान्येव दर्शयन्नाह। श्रूयन्ते हीत्यादि कश्चित् पुरुषर्या ज्ञ व ल्क्य प्रभृतिभिरुत्सन्नोद्धृतानि। उत्सन्नान्यन्तरितानि सन्ति वेदस्य शाखान्तराणि। उद्धृतानि स्मृत्वा स्मृत्वा पुनरारचितानि। तानि च यथातत्त्वं स्मृत्वोद्धृतानीति किमत्र प्रमाणं। इदानीमपि कानिचिद् आह र क प्रभतीनि शाखा न्तराणि विरलाध्यतृकाणि। स्वल्पाध्येतृकानि (?णि) दृश्यन्ते। ते कतिपयाध्येतारो न समारोप्योपदिशन्तीति किमत्र प्रमाणं। यथा विरलाध्येतृकाणि शाखान्तराणि दृश्यन्ते। तद्वत् प्रचुराध्यतृकाणामपि बहुतराध्येतृकाणामपि शाखान्तराणां कस्मिंश्चिदित्यतिक्रान्ते काले संसारसम्भवात्। अल्पाध्येतृकत्वसम्भावनासम्भवात। तेषां प्रागपि प्रचराध्येतकत्वे प्रमाणाभावात् । इदानीन्तर्हि कथं प्रचुराध्येतृकाणि तानीत्यत आह। पुनरित्यादि । पुनः कालान्तरेणाप्तत्वेन सम्भावितस्य पुरुषस्य प्रत्ययात् प्रामाण्यात् तदन्यासम्भावितपुरुषाध्ययनवैपरीत्येन संहृतानामध्येतृणां प्रचुरतोपगमनस्य बाहुल्योपगमनस्य या सम्भावना तस्याः सम्भवादनिश्चयः।
किञ्च । ये ते पुरुषा विरलीभूताः शाखान्तराणां प्रतानयितारस्तेषां प्रतानयितॄणामन्यथोप देशसम्भवादिति सम्बन्धः। तथा चानाश्वास इत्यभिप्रायः । कीदृशानां प्रतानयितृणां कदाचिदधीतविस्मृताध्ययनानां। अधीतं सद् विस्मृतमध्ययनं यैस्ते तथोक्ताः। यथाधीतं विस्मृतास्सन्तस्तेऽन्यथापि प्रतानयेयुरित्यर्थः । केन कारणेनेत्याह। अन्येषान्तदभिप्रसन्नानामध्येतृणान्तस्मिन्नध्यापयितरि। या महत्वसम्भावना। तस्या भ्रंशभयात्। यद्यहमन्यथापि नोपदिशेयं । नूनमेते मय्याप्तसम्भावनां जहा (? जह) तीति। आदि शब्दादाहोपुरुषादिकात् अन्यथोपदेशसम्भवः ।