________________
च. प्राप्त-चिन्ता
५६५
पौरुषेयाणामर्थगतावुपायः। अपौरुषेयस्तु शब्दो नैवं करोति (1) न चास्य कश्चित् क्वचित् सम्बन्धनियमं ज्ञातुमीश इत्यप्रतिपत्तिरेव तदर्थस्य।
अपि च (1) वेदस्तद्वयाख्यानं वा पुरुषेण पुरुषायोपदिश्यमानमनष्टसम्प्रदायमेवानुवर्तत इत्यत्रापि समयः स (?श) रणं। आगमभ्रंशकारिणामाहोपुरुषिकया तद्दर्शनविद्वेषेण वा तत्प्रतिपन्नखलीकरणाय धूर्तव्यसनेन अन्यतो वा कुतश्चित् कारणादन्यथारचनासम्भवात्।
अपि चात्र भवान् स्वमेव मुखवणं स्ववादानुरागान्नूनं विस्मृतवान् । “पुरुषो रागादिभिरुपप्लुतोऽनृतमपि ब्रूयादिति नास्य वचनं प्रमाणमि"ति। तदिहापि किन्न प्रत्यवेक्ष्यते संभवति न वेति। स एवोपदिस (? श)न्नुपप्लवात् वेदं वेदार्थ
स्वयं समितानां संकेतितानां शब्दानामर्थं शृङ्गग्राहिकयापीत्यस्य शब्दस्यायमर्थ इत्यनेन तावदबुधमज्ञं पुरुषं बोधयेदित्यस्ति पौरुषेयाणां शब्दानामर्थगतावर्थज्ञाने उपायो नापौरुषेयाणां। तथा ह्यपौरुषेयस्तु शब्दो नैवं करोति यथायं ममार्थो रागादिमता ग्राह्य इति। न चास्यापौरुषेयस्य शब्दस्य कश्चि ज्जै मिन्यादी रागादिमान् क्वचिदतीन्द्रियेर्थे सम्बन्धनियमं ज्ञातुमीशः शक्त इति । अप्रतिपत्तिरेव तदर्थस्य वेदार्थस्य ।
अपि च (1) भवतु नामापौरुषेयो वेदस्तद्वयाख्यानञ्च तथापि रागादिमता पुरुषेण पुरुषायोपदिश्यमानमनष्टसंप्रदायमेवाद्यत्वेप्यनुवर्तत इति (अत्रापि) प्रमाणाभावात् समयः शपथादिः शरणं। आगमभ्रंशकारिणामित्यादिना संप्रदायविच्छेदेन रचनान्तरसम्भवमेव समर्थयते। आगमभ्रंशकारिणां पुंसामन्यथा। पूर्वरचनावपरीत्येन रचनादर्शनादिति सम्बन्धः। अन्यथा रचनायां कारणमाह। आहोपुरुषिकयेत्यादि। आहोपुरुषिकयेत्यहंमानित्वेन। यथा सां ख्य नाशकमा ध वे न सांख्यसिद्धान्तस्यान्यथा रचनं कृतं। तद्दर्शनविद्वेषेण वान्यथा रचनासम्भवात् ।। यथा म हा या न विद्विष्टानां महायानप्रतिरूपकसूत्रान्तररचनं । तत्प्रतिपन्नखलीकरणायेति। तस्मिन् दर्शने यः प्रतिपन्नः पुरुषस्तस्य खलीकारायान्यथारचनासम्भवः। तत्प्रतिपन्नखलीकार एव कथं। धर्तव्यसनेन। व्यसनमिदन्धर्तानां यत्परः खलीकर्तव्य इति। अन्यतो वा कुतश्चिल्लाभादिकात् । ____ अपि चात्र वेदार्थनिर्णये। भवान् वे द वा दी। स्ववादानुरागात्कारणात् । स्वमेव मुखवणं। मुखं वर्णयति शोभयतीति मुखवणः । स्वाभ्युपगमस्तं नूनम्बिस्मृतवान् । येन रागादिमलिनेभ्यः पुरुषेभ्यो वेदार्थनिर्णयः प्रार्थ्यते।
पुरुष इत्यादिना मुखवर्णमाचष्टे । यस्मात् पुरुषो रागादिभिरुपप्लुतो विपर्यस्तोऽनृतमपि ब्रूयादिति कृत्वा नास्य पुरुषस्य वच'नम्प्रमाणमिति (1) 210a