________________
५६४
प्रमाणवात्तिकस्ववृत्तिटीका (१।३२२) स्वशास्त्रकारसमयात् पाणिनी यादिव्यवहारवत्। उपदेशापेक्षणात्। न ह्यपौरुषेये तस्मिन्नुपदेशो युक्तस्तस्य केनचिदज्ञानात्। अतीन्द्रियत्वात् । ऐन्द्रियत्वे स्वयं प्रतिपत्तिप्रसंगाद् रूपादिवत्। उपदेशे च पुरुषाणां स्वतन्त्र (1) णां यथातत्त्वमुपदेशेनाविसंवादस्यासिद्धरनाश्वासः।।
वेदवत् तद्व्याख्यानमपौरुषेयं संप्रदायाविच्छेदागतं ततोर्थसिद्धिरिति चेत् । न (1) तस्यापि शब्दात्मकत्वे तुल्यः पर्यनुयोगः (1) कथमस्याओं विदित इति । पुरुषो हि स्वयं समितानां शब्दानामर्थ शृंगग्राहिकयापि तावदबुधं बोधयेवित्यस्ति
ब्दार्थसम्बन्धाद् भवति (1) किन्तहि (1) अभिप्रायकथनलक्षणात् समयात् । किमिव (1) स्वशास्त्रकारेत्यादि । स्वशास्त्रकाराणां पा णि नि प्रभृतीनां समयात् संकेतात् । तत्समयानुसारिणां पा णि नी या दीनां वृद्धिगुणसंज्ञादिव्यवहारवत् किं कारणम् (1) उपदेशापेक्षणात् । ___यदि हि लौकिकोपि व्यवहारो निसर्गसिद्धः स्यात् तदा परोपदेशन्नापेक्षेत। न च यथा सामयिकात् सम्बन्धादुपदेशापेक्षादर्थप्रतीतिस्तथाऽपौरुषेयादपि सम्बन्धादुपदेशापेक्षादेव वेदार्थप्रतीतिः (1) यतो न हपौरुषेये तस्मिन् वैदिके शब्दार्थसम्बन्धे परोपदेशो युक्तः। किङ्कारणं (।) तस्य वेदार्थस्य केनचिदपि पुरुषेणाज्ञानादज्ञानां च वेदार्थस्यातीन्द्रियत्वात् । तदुक्तं।
"श्रेयः साधनता ह्येषान्नित्यम्वेदात् प्रतीयते।। ताद्रूप्येण च धर्मत्वन्तस्मान्नेन्द्रियगोचरः। (श्लो० चो० १४) श्रेयो हि पुरुषप्रीतिः सा द्रव्यगुणकर्मभिः।।
चोदनालक्षणैः साध्या तस्मात्तेष्वेव धर्मते''ति। (, १६१ )
ऐन्द्रियकत्वे तु वेदार्थस्याभ्युपगम्यमाने स्वयमुपदेशमन्तरेण वेदार्थस्य प्रतीति- ' 209b प्रसङ्गात् । रूपादिवत् । यथा रूपादीनामन्द्रियकत्वादुपदेशमन्तरेण प्रतीतिस्तद्वत् ।'
अथातीन्द्रियेपि वेदार्थे निश्चयार्थमुपदेशोऽभ्युपगम्यते। तदोपदेशे च । वेदार्थोपदेष्टणां पुंसां स्वतन्त्राणामिति रागाद्यभिभवेन सम्यग्ज्ञानाभावाद् यथेच्छं प्रवृत्तानां यथातत्त्वमुपदेशेनाविसम्वादस्यासिद्धरनाश्वासो न निश्चयो वेदार्थे। न ह्यज्ञा यथातत्त्वमुपदेष्टुं समर्था इति। न पुरुषाः स्वेच्छयोपदिशन्ति ।
किन्तु वेदवद् वेदव्याख्यानमप्यपौरुषेयमुपदेशपरम्परायातलक्षणात् संप्रदायाविच्छेदादागतं। ततो यथोक्ताद् वेदव्याख्यानाद् वेदार्थसिद्धिरिति चेद् । (1)
उत्तरमाह। तस्यापीत्यादि। तस्यापि वेदव्याख्यानस्य शब्दात्मकत्वे शब्दस्वभावत्वे वेदेन तुल्यः पर्यनुयोगः। कथमस्यापौरुषेयस्य वेदव्याख्यानस्यार्थो विदित इति कुतोस्माद् वेदार्थनिश्चयः । पौरुषेये त्वागमे नायन्दोषो यतः पुरुषो हि