SearchBrowseAboutContactDonate
Page Preview
Page 611
Loading...
Download File
Download File
Page Text
________________ च. प्राप्त-चिन्ता ५६३ दर्शनात् तत्प्रवृत्तेः संवादेन व्याप्त्या सिद्धेश्च । इदमागमलक्षणमगत्या दृष्टमिति नातो निश्चयः। तत् न प्रमाणमागम इत्युक्तं (प्राक्)। अपौरुषेयाणां शब्दानामर्थज्ञानं न संप्रदायात, न यक्तेः, नापि लोकात । न हि तत्राप्रतिपत्तिः न्याय्या। स चेत् प्रसिद्धो लोकवादः प्रतीतिहेतुः । प्रसिद्धो लोकवादश्वेत् , तत्प्रतीतिहेतुः ।) तत्र कोतीन्द्रियार्थदृक् । अनेकार्थेषु शब्देषु येनार्थोयं विवेचितः ॥३२२॥ न ह्ययं लोकव्यवहारोऽपौरुषेयाच्छब्दार्थसम्बन्धात्। किन्तर्हि (1) समयात् 36a दिविषये प्रमाणसम्वादादस्खलितो दृष्ट इति कृत्वा सर्वन्तदुपदिष्टमयुक्तिगम्यमपि तथा भवति । किं कारणं (1) तत्प्रवृत्तेरित्यादि । तस्य पुरुषातिशयस्य वचनप्रवृ- . तेरविसम्वादेन व्याप्त्या सिद्धेविपर्यये बाधकप्रमाणाभावात्। नन भवतापि (1) "प्रत्यक्षेणानुमानेन द्विविधेनाप्यबाधनम्” (११।२१८) इत्यादिनैकदेशाविसम्वादनमागमलक्षणमिष्टमिति (1) अत आह। अगत्या चेत्यादि। प्रमाणगम्यार्थाविसम्बादेनात्यन्तपरोक्षेप्यविसम्वादिवचनमितीदमागमलक्षणमगत्येष्टमागमात् प्रवृत्तौ वरमेवं प्रवृत्त इति । नातो यथोक्तादागमादतीन्द्रियार्थनिश्चयस्तस्याप्रामाण्यात् । तदिति तस्मान्न प्रमाणमागम इत्युक्तं प्राक् । तदेवमपौरुषेयाणां शब्दानामर्थज्ञानन्नाचार्यसंप्रदायात् । दैशिकस्याभावात्। न युक्तस्सकाशादत्यन्तपरोक्षेर्थे प्रमाणाप्रवृत्तेः। नापि लोकादर्थप्रतीतिर्लोकप्रत्यायनाय प्रयोगाभावेन लोकसंकेतानुसरणायोगादिति। तत्रापौरुषेयेषु शब्देष्वर्थानामप्रतिपत्तिरेव न्याय्या। तत्रापि वैदिके शब्दे प्रसिद्धो लोकवादो यथा ग्न्यादि शब्दाद् दाहपाकादिसमथैर्थे प्रवर्तन्त इत्यादि। यो लोकव्यवहारस्स चेद् वेदार्थप्रतिपत्तिहेतुः। उत्तरमाह। तत्रेत्यादि। तत्र लोकेऽविद्यात्वे कः पुरुषोतीन्द्रियार्थदृक् । येनातीन्द्रियार्थदृशाऽनेकार्थेषु शब्देष्वेकार्थप्रतिनियमाभावादाशंक्यमानार्थविशेषेषु वैदिकेष्वर्थोयमतीन्द्रियो विवेचितो विभक्तोयमेवास्यार्थो नायमिति (1) नैव तादृशः कश्चिदस्ति। न हीत्यादिना व्याचष्टे। न ह्ययं लोकव्यवहारोपौरुषेयादकृतकाच्छ । 1 Restored. ७५
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy