________________
५६२ प्रमाणवात्तिकस्ववृत्तिटीका (११३२१)
अपि च न्यायमेव अनुपालयन्तः पंडिता हेयोपादेय साश्रयार्थे प्रवर्तन्ते । न प्रवादमात्रेणेति न समानः प्रसंगः। तच्च यथावसरं प्रतिपादयिष्यामः ।
ननु यो लोकसन्निवेशादिरयुक्तिविषयोप्यर्थः सम्भवनीयपुरुषवचनात् प्रतिपद्यते।
न। अप्रत्ययात् । न हि क्वचित् असन्देहात् सर्वत्र तथा स्यात्। सन्देह
अधुना न्यायानुसारेणैव पौरुषेयाणामर्थनिश्चयो भवतीत्याह । अपि चेत्यादि। न्यायमेव युक्तिमेवानुपालयन्तः पण्डिताः प्रेक्षापूर्वकारिणो बौद्धा हेयादिषु संघटन्ते। हेयस्य साश्रयस्य त्या गाय। उपादेयस्य साश्रयस्योपादानाय प्रवर्तन्ते । तत्र हेयं दुःखमुपादेयो मोक्षः। तयोराश्रयो यथासंख्यं कर्मक्लेशास्तत्त्वज्ञानञ्च ।
___एतदुक्तम्भवति (1) अनेकार्थत्वसम्भवेपि शब्दानां युक्तियुक्तं पुरुषार्थोपंयोगिनमेवागमार्थन्निश्चिन्वन्ति सौ ग ता न परोपदेशमात्रेण (1) ततोयमदोष इति (1)
तदेवाह (1) न प्रवादमात्रेणेति । न बृद्धानां प्रवाद मात्रेणेति न समानः प्रसंगः। तच्च न्यायानुपालनपूर्वकमेवागमे प्रवर्तनं यथावसरं प्रतिपादयिष्यामः । पश्चात्।
यदि न्यायानुपालनेनागमार्थनिश्चयोऽत्यन्तपरोक्षे तांगमार्थे निश्चयोन स्यादित्याह। नन्वित्यादि। लोकसन्निवेशादिरिति भाजनलोकस्य पृथिव्यादेः सन्निवेशादिः। यथोक्तं (1)
"तत्र भाजनलोकस्य सन्निवेशमुशन्त्यधः ।।
लक्षषोडशकोद्वेधमसंख्यम्वायुमण्डलमि"त्यादि।' आदिशब्दात्। दानहिंसादिचेतनानामिष्टानिष्टफलदानादि।
देशस्वभावादिविप्रकृष्टत्वादयुक्तिविषयोप्यर्थः प्रतिपद्यते भवद्भिबौद्धः (1) कुतः (1) सम्भवनीयपुरुषवचनात् । यस्य प्रत्यक्षानुमानगम्येर्थे वचनमविसम्वादि। तस्य तृतीयस्थाने वचनं सत्यार्थत्वेन सम्भाव्यते। तस्मात् सम्भावनीयात् पुरुषवचनादर्थः प्रतिपद्यते। तथा च न न्यायानुपालनपूर्विकाऽगमार्थे प्रवृत्तिरिति समान एव प्रसंग इति मन्यते।।
नेत्यादिना परिहरति । नात्यन्तपरोक्षोर्थः पुरुषवचनात् प्रतिपद्यते। किं कारणम् (1) अप्रत्ययात् तद्विषयप्रमाणाभावेनानिश्चयात् । प्रत्यक्षादिविषये सम्बादा209a दत्यन्तपरोक्षेपि सम्वादो निश्चीयत इत्यपि मिथ्या यतो न हि क्वचित् प्रत्यक्षा
1 Abhidharmakośa, ch.3