________________
च. आप्त-चिन्ता
भूतविशेषे यथाभिमतं घृतादि प्रक्षिपेदित्यर्थे खादेच्छवमांसं इत्यस्य नातिशयं पश्यामः। परोक्षदेशिकानि वचनानि यथाभिप्रायं तथाऽस्माभिः प्रतिपद्यते, आहोस्विद् विपर्ययमिति।
नायं सर्वत्र तुल्यः प्रसंगः स्यात् । उपदेष्टुः स्वयं अभिप्रायप्रकाशेनन' सदुप- 528b देशसम्भवात् । न ह्ययं शब्दानामदेशिकानां सम्भवति ।
लोकप्रत्यायनाभिप्रायश्च ब्रुवाणो लोकसंकेतप्रसिद्धि अनुपालयति । ततोऽपि तत्प्रतीतिः स्यात् । नापौरुषेयाणां शब्दानाम् । तत्र कस्यचिद् विवक्षाया अभावात् ।
क्वचिदित्यादिना व्याचष्टे। “अग्निहोत्रं जहयात् स्वर्गकाम" इत्यादि वाक्यस्य क्वचिदपि वाच्यत्वेनाभिमतेर्थे प्रत्यासत्तिरहितस्यानभिमतेर्थे विप्रकर्षरहितस्य वास्तवस्य सम्बन्धस्य निराकरणाभयाभावः। भतविशेषग्नौ यथाभिमतमिति मन्त्रादिपूतं घृतादि प्रक्षिपेदित्ययमर्थो न पुनः श्वमांसं खादेदित्ययमर्थ इति नातिशयम्पश्यामः।
नन्वयं यथोक्तः। सर्वत्र पौरुषेयेप्यागमे समानः प्रसङ्गः । तमेव दर्शयन्नाह। परोक्षो दैशिको वक्ता। येषाम्वचनानामागमानान्तानि तथोक्तानि। तेषामर्थं यथाभिप्रायमिति यथा दैशिकाभिमतः । इदानीन्तना अदृष्टदैशिकाः पुरुषाः समनयन्त्यवगच्छन्त्याऽहोस्विद विपर्ययन्दैशिकाभिप्रायविपरीतमिति नियमाभावात सर्वत्र संशय इति मन्यते।
नेत्यादिना परिहरति । नायं सर्वत्र प्रसंगः। उपदेष्टुरागमस्य प्रणेतुरभिप्रायप्रकाशनेनेति प्रथमं प्रकाशयतानेन स्वाभिप्रायस्तत्कालसन्निहितेभ्यः श्रोतृभ्यः कथितोस्य वचनस्यायमर्थ इति। तेपि श्रोतारोन्येभ्यः प्रकाशयन्ति तेप्यन्येभ्य 208b इत्याचार्योपदेशे पारम्पर्यस्य सम्भवात् । न ह्ययमभिप्रायकथनलक्षणो वैदिकानां । शब्दानामदेशिकानामित्यपौरुषेयाणां सम्भवति दैशिकस्याभावात् ।
.. इतश्च पौरुषेयेषु यथा प्रसिद्धार्थसम्भवो यस्मादागमस्य प्रणेता लोको मया बोधनीय इति लोकप्रत्यायनाभिप्रायश्च ब्रुवाणो लोके यस्मिन्नर्थे शब्दस्य संकेतस्तस्य प्रसिद्धिमनुपालयति रक्षत्यन्यथा विफलन्तस्य प्रकाशनं स्यात्। ततोपि लोकप्रसिद्धसंकेतानुपालनादपि तदर्थसिद्धिः स्यात्। पुरुषप्रणीतस्यागमस्यार्थसिद्धिः स्यात् । अपिशब्दात् पूर्वोक्ताच्च सम्प्रदायसम्भवात्। नापौरुषेयाणां शब्दानां यथोक्तेन प्रकारेणार्थसिद्धिः। किं कारणं । तत्र वैदिकेषु शब्देषु कस्यचित् पुंसः समीहाभ () वात्। वचनहेतोविवक्षाया अभावात् । एवन्तावत् संप्रदायादिसम्भवेन पौरुषेयस्यागमस्यार्थपरिज्ञानसम्भवात् तुल्यप्रसंगता नास्तीत्यक्तम् (1)