________________
५६०
प्रमाणवार्तिकस्ववृत्तिटीका (११३२१) 528a स्वयं रागादिमानार्थ वेत्ति वेदस्य नान्यतः।
न वेदयति वेदोपि वेदार्थस्य कुतो गतिः ॥३२०।। सर्व एव हि वक्ता पुरुषोऽनतिक्रान्तदोषभ्रान्तिस्तमतीन्द्रियार्थविशेषप्रति नियम न वेत्ति स्वयं, नाप्येनं अन्यो वेदयति तस्यापि तुल्यप्रसंगतः। न हि अन्धेन प्राकृष्यमाणोऽन्धः पन्थानं प्रतिपद्यते। नापि स्वयं वेदः स्वार्थ विवृणोति' उपदेशवैयर्थ्यप्रसंगात्। ___ तद् (प्रयं) अपरिज्ञातार्थ शब्दगडुः, एवं शल्यभूतोऽसद्दर्शनस्नायूपनिबद्धो दुरुद्धरः दुःखमासादयति।
तेनाग्निहोत्रं जुहुयात् स्वर्गकाम इति श्रुतौ।
खादेच्छ्वमांसमित्येष नार्थ इत्यत्र का प्रमा॥३२१॥ क्वचिदपि अर्थे प्रत्यासत्तिरहितस्य "अग्निहोत्रं जुहुयात् स्वर्गकाम” इत्यादे:
म्यादिः पुरुषः । स्वयमिति परोपदेशनिरपेक्षः। वेदस्यायं न वेत्ति । रागादिमान् यतः। रागादिमत्त्वमपरिज्ञानकारणं। अन्यतोपि न वेत्ति वेदस्यार्थन्तस्याप्यस्य पुरुषस्य रागादिमत्त्वात् । वेदोपि स्वयमर्थं न वेदयत्ति न प्रकाशयति । तेन वेदार्थस्य कुतो गतिः। नैव गतिरस्ति। यस्मात् सर्व एव हि पुरुषोनतिक्रान्तो रागादिदोषकृतो विप्लवो भ्रान्तिर्यस्येति विग्रहः। तमिति वेदस्यातीन्द्रियार्थप्रतिनियममयमेवास्यार्थो नायमित्येवं न वेत्ति स्वयं । नाप्येनं रागादिमन्तं पुरुषमन्यः पुरुषो वेदयति तस्याप्यन्यस्य तुल्यप्रसंगतः। रागादिमत्त्वेन तस्याप्यज्ञत्वादित्यर्थः । यतो न झन्धेन स्वयममार्गज्ञेनाकष्यमाणोऽन्धः पन्थानं प्रतिपद्यते। नापि स्वयमपदेशनिरपेक्षो वेदः स्वार्थ प्रकाशयति। कुतः (1) उपदेशवैयर्थ्यप्रसंगात्। जै मिन्या दि व्याख्यानस्य निष्फलत्वप्रसंगात्।
तत्तस्मादयमपरिज्ञातार्थो वेदाख्यः शब्दगडः। घाटामस्तकयोर्मध्ये मांसपिण्डो गडुरुच्यते निष्फलत्वात्। तद्वद्वैदिकोपि शब्दोऽपरिज्ञातार्थत्वेन निष्फलत्वात् । गडुरिव गडुः। एवमिति किमस्यायमर्थोथवायमिति संशयात् तदभिप्रसन्नस्य शल्यभतो दुःखहेतूरतस्तमंगीकृतवेदम्पुरुषं दःखमासादयति स्थापयति। कीदशोऽसहर्शनमेव स्नायुः शिरा। तेनोपनिबद्धस्तत एव केनचित् कारुणिकेनाप्यपनेतुमिच्छता दुरुद्धर इत्युपहसति।।
तेनेत्यपरिज्ञातार्थत्वेनाग्निहोत्रजुहुयात् स्वर्गकाम इति श्रुतौ वेदवाक्ये खादेच्छ्वमांसमित्येष नार्थः किन्त्वन्योभिमतोर्थ इत्यत्र का प्रमा। नैव किञ्चित् प्रमाणं।
1 Rnam par-hgrel-par-byed-pa.