________________
च. आप्त-चिन्ता
५८६
प्रमाणेनाबाधनात् प्रतिपत्तेः। तद्भावेऽपि अन्यत्रान्यप्रमाणसंवादिनि अनिष्टत्वात्। अपि च ।
यद्यत्यन्तपरोक्षेर्थेऽनागमज्ञानसम्भवः ।
भतीन्द्रियार्थविकश्चिदस्तीत्यभिमतं भवेत् ॥३१९॥ यदि पुरुषस्य परोक्षेऽर्थे पागमानपेक्षं ज्ञानयाथातथ्यं इष्यते, तदा पुरुषाः संति अतीन्द्रियार्थदृश इतीष्टं स्यात् । प्रत्यक्षपूर्वकाणां प्रमाणस्यातद्दर्शनेऽसम्भवात् प्रत्यक्षावृत्तः। तेषु प्रमाणान्तरासम्भवेऽतदालम्बन प्रतीतय आगमः प्रमाणम् । प्रमाणान्तरस्य वृत्तिः प्रत्यक्षमन्वाकर्षतीति पुरुषातिशयोऽनिवार्यः स्यात्। तस्मानास्त्यतीन्द्रिये प्रमाणान्तर वृत्तिः। अत एव प्रागमस्यार्थविशेषे वृत्त्यपरिक्षानात् । अयं जैमिनिरन्यो वा।
एतदुक्तम्भवति । प्रमाणसम्वादित्वेनागमार्थप्रतिपत्तेरिष्टत्वादित्यर्थः। तद. भावेप्यपौरुषेयत्वभावेपि तुल्येन्यत्राप्रमाणसम्वादिन्यर्थे प्रतिपत्तेरनिष्ठत्वात् प्रमाणसम्वादो वचनानामागमलक्षणं स्यात् । '
यदि चात्यन्तपरोक्षेर्थेऽनागमज्ञानसम्भव आगमनिरपेक्षस्य ज्ञानस्य सम्भवः । तदातीन्द्रियार्थक्त् िकश्चिदस्तीति स्वमभिमतम्भवेत्। ___यदि पुरुषस्य जै मि न्या देर्वेदार्थमाख्यातुः परोक्षेर्थे स्वर्गादिसाधनोपाये आगमानपेक्षं ज्ञानयाथातथ्यं ज्ञानस्यावैपरीत्यमिष्यते। तदा जै मि न्यादिवदन्यपि पुरुषाः संत्यतीन्द्रियार्थदृश इतीष्टं स्यात् । ___ स्यादेतत् (1) नातीन्द्रियमर्थं प्रत्यक्षतो जानात्यपि त्वनुमानेन ज्ञात्वोपदिशतीति (1)
तन्न। यतः (1) प्रत्यक्षपूर्वकाणामनुमानादीनामसम्भवात्। कदाऽतद्दर्शने तेन प्रत्यक्षेणातीन्द्रियस्यादर्शने (1) प्रत्यक्षेत्यादिनैतदेव स्पष्टयति। तेष्वतीन्द्रियेष्वर्थेषु प्रत्यक्षावृत्तेः कारणात् प्रत्यक्षपूर्वकाणां प्रमाणान्तराणामसम्भवात्।।
. अतदालम्बनं प्रतीयत इति तस्य प्रत्यक्षादेरालम्बनम्विषयः। न तदालम्बनमतदालम्बनं प्रत्यक्षाद्यविषयन्तस्य प्रतीयते निश्चयार्थमाग मोन्विष्यत इत्यध्याहारः । प्रमाणान्तरस्य त्वनुमानादेरतीन्द्रियेर्थे वृत्तिः प्रत्यक्षमतीन्द्रियविषयमन्वाकर्षति साधयति । प्रत्यक्षपूर्वकत्वादनुमानादेः । इति हेतोः पुरुषातिशयोतीन्द्रियाणामर्थानां द्रष्टा मी मां स कै रनिवार्यः स्यात् । निवारितश्च । तस्मान्नास्त्यतीन्द्रियर्थे प्रमाणान्तरवृत्तिः।
अत एवेति प्रमाणान्तरावृत्तेरेवागमस्य वेदस्यातीन्द्रिये स्वर्गादिसाधनत्व- 208a लक्षणेर्थविशेषे या वृत्तिस्तस्या अनिश्चयात् । अयं जैमिनि रन्यो वा श ब र स्वा
1 Bar-la-?
Khyad-par-la.