________________
५८८ प्रमाणवात्तिकस्ववृत्तिटीका (१।३१८) प्रवृत्ते प्रमाणान्तरमन्विष्यते। किन्तु सैवागमस्य प्रवृत्तिर्न ज्ञायत इति चेत् ।
स्वयं प्रसाधने समर्थस्य तदागमोपधानं कमतिशयं पुष्णाति। असमर्थन्तु आगम527b प्रवृत्तिमपि नैव साधयिष्यति। सा चातीन्द्रियेणार्थेन सम्बद्धा प्रागमप्रवृत्तिरती'न्द्रिया कथमन्येन सिद्धा। अन्यच्च एवं आगमलक्षणं स्यात। तथा हि।
यस्य प्रमाणसंवादि वचनं तत्कृतं वचः।
स आगम इति प्राप्तं निरर्थाऽपौरुषेयता ॥३१८॥ तुल्येऽपि आगमवादे प्रमाणबलादागमस्यापि क्वचिदर्थ प्रागमत्वे प्रमाणसंवादिवचनं आगमलक्षणं स्यात् । नापुरुषक्रिया। तस्याः सर्वार्थेषु तुल्यत्वेऽपि
नेत्यादि परः। न वै आगमेतीन्द्रियेष्वर्थेषु प्रवृत्ते प्रत्यक्षादिप्रमाणमागर्मविषयेन्विष्यते। येनायन्दोषः। स्यात्।
ततश्च केवलात् प्रतिपत्तेरसाधनमेवागमः स्यादिति। किन्तु सैवागमस्यातीन्द्रियेष्वपि प्रवृत्तिन ज्ञायते। तेनागमप्रवृत्तिः प्रत्यक्षादिकमपेक्षत इति चेत् ।
स्वयमित्यादिप्रतिवचनन्तदास्य प्रत्यक्षादेः स्वयमतीन्द्रियार्थप्रसाधने समर्थस्य तदागमो पधानन्तस्यागमस्योपधानं सन्निधानं प्रत्यक्षादेः कमतिशयं पुष्णाति येनागमप्रवृत्तिमतीन्द्रियर्थे ज्ञापयति । ___ अथातीन्द्रिये प्रत्यक्षाद्यसमर्थ (1) ततो समर्थन्तु प्रत्यक्षादि आगमप्रवृत्ति
मपि नैव साधयिष्यति यतो यथा स्वर्गादिसाधकमतीन्द्रियन्तथा सा चातीन्द्रिये207b णार्थेन सम्बद्धा आगमप्रवृत्तिरतीन्द्रिया। कथमन्येन प्रत्यक्षादिना सिद्धा। नैव
सिद्धा। येन तदर्थं प्रत्यक्षादिरन्विष्यत इति यत्किञ्चिदेतत्। __ बहुष्वपि व्याख्यातृषु यः प्रमाणं प्रत्यक्षादिकं संस्यन्दयति तस्य भाषितं गृह्यत इति ब्रुवतो पौरुषेयत्वादागमलक्षणादन्यश्चैवमागमलक्षणं स्यात्। एतदेवाह । तथा हीत्यादि। यस्य पुरुषस्य वचनं प्रमाणसम्वादि। तत्कृतन्तेन पुरुषेण संस्कृतं वच आगम इति प्राप्तं । वचनस्य च संस्कारस्तदर्थस्य प्रमाणानुगृहीतत्वख्यापनं । इदन्तदन्यदागमलक्षणं । तथा च निरर्था व्यर्थाऽपौरुषेयता आगमलक्षणत्वेनेष्टा।
तुल्येत्यादिना व्याचष्टे। यश्च प्रमाणसम्वादिवचनेन पुरुषेणार्थः कल्पितो यश्चेतरेण तयोरर्थयोस्तुल्येप्यपौरुषेयत्वागमवादे सति प्रमाणबलादागमस्यापौरुषेयस्यापि क्वचिदर्थे प्रमाणसम्वादिन्यागमत्व इष्यमाणेऽग्निहोत्रादिवाक्यानां प्रमाणसम्वाद आगमलक्षणं स्यात्। नापुरुषक्रिया। अपौरुषेयत्वमागमलक्षणं न स्यात्। किङ्कारणं (1) तस्या अपुरुषक्रियाया अभिमताऽनभिमतेषु पुरुषोपदिष्टेषु सर्वार्थेषु तुल्यत्वेपि प्रमाणेनाबाधनात् प्रतिपत्तेरिष्टत्वात् ।