________________
च. आप्त-चिन्ता
५८७
स्यादेतद् । न वयं पुरुषप्रामाण्याः कस्यचिद् वेदव्याख्यानेऽनमभिनिविष्टाः। किन्तहि । अन्यप्रमाणसंवादात् । बहुष्वपि व्याख्यातृषु यः प्रमाणं प्रत्यक्षादिकं संस्यन्दयति सोऽनुमन्यत इति। ___ तन्न। अदृष्टादिषु अतीन्द्रियेषु प्रमाणान्तरावृत्तेः। तदवृत्तेरेव हि तत्प्रतीत्यथं आगम उपयाच्यते। अन्यथा सत्यपि तस्मिन् यदि अर्थे प्रमाणान्तरस्यावृत्तिः अप्रतिपत्तेः। ततश्च केवलात् प्रतिपत्तेरसाधनमेवागमः स्यात्।।
केवलादन्यतोऽपि अतीन्द्रियेषु अप्रतिपत्तिरिति चेत् ।।
कथमतीन्द्रियश्च नाम प्रत्यक्षादिविषयश्च । ते पुनः स्वविषयेऽपि आगममपेक्ष्यैव साधकाश्चेत्, अनागमोग्न्यादिप्रत्ययो धूमादेर्न स्यात् । न वै प्रागमे
. स्यादेतदित्यादिना व्याचष्टे। न वयं पुरुषप्रामाण्याः कस्यचिज्जैमिन्यादेर्वेदव्याख्यानमभिनिविष्टाः (1) किन्तर्हि (1) प्रमाणसम्बादाद् व्याख्यानमभिनिविष्टाः। एतदेव व्यनक्ति। बहुष्वपि वेदव्याख्यातषु मध्ये। यो वेदस्य व्याख्याता। यथा व्याख्यातेर्थे प्रमाणं प्रत्यक्षादिकं संस्यन्दयति योजयति स तादृशो व्याख्यातानुमन्यतेङ्गीक्रियते नान्य इति।।
तन्नेत्यादिना प्रतिषेधति। धर्माधर्मावदृष्टं। आदिशब्दात् स्वर्गादिसाधकत्वेष्वतीन्द्रियेषु प्रत्यक्षादिप्रमाणान्तरावृत्तेः। न वेदार्थे कस्यचित् प्रमाणसम्वादि वचनं। यस्मात् तदसम्भवादेव हि। अत्यन्तपरोक्षे प्रत्यक्षादिप्रमाणस्यासम्भवादेव हि। तत्प्रतीत्यर्थन्तस्यातीन्द्रियस्य प्रतीत्यर्थमागमः उपयाच्यते प्रार्थ्यते। अन्यथेति यद्यागमगम्येप्यर्थे प्रमाणान्तरसम्वादादेवार्थनिश्चयस्तदा सत्यपि तस्मिन्नागमे तद्गम्यर्थे यदि प्रमाणान्तरस्यावृत्तिः स्यात् (।) तदा प्रमाणान्तरावृत्तावागमात् केवलादप्रतिपत्तेः। ततश्चेति प्रमाणान्तरात्केवलादित्यागमरहितार्थप्रतिपत्तेरसाधनमेवागमः स्यात्। प्रमाणान्तरभावाभावाभ्यामेवार्थप्रतिपत्तेर्भावाभावात् । केवलादागमनिरपेक्षादन्यतोपि प्रत्यक्षादेः प्रमाणादतीन्द्रियेर्थे प्रतिपत्तिः किन्त्वागमसहितात् प्रत्यक्षादेरतीन्द्रियार्थप्रतिपत्तिरिति चेत्।
कथमिति सि द्धा न्त वा दी। कथमतीन्द्रियश्च नाम स्वर्गादिसिद्धयुपायः प्रत्यक्षादिविषयश्च विरोधात। ___स्यान्मतं (1) नैवात्यन्तपरोक्षेर्थे प्रत्यक्षादीनां साधकत्वं किन्तु ते पुनः प्रत्यक्षादयः स्वविषयेप्यात्मीये विषयेप्यागममपेक्ष्यैव साधकाश्चेत् तथा चागमस्यैव प्रामाण्य मिति परो मन्यते ।
अनागमेत्यादि सिद्धान्त वा दी। नास्मिन्नागमीस्तीत्यनागमोग्न्यादिप्रत्ययो धूमादेलिङ्गान स्यात्।