________________
५८६ प्रमाणवात्तिकस्ववृत्तिटीका (१।३१७)
अथ कुतश्चिद् बुद्धीन्द्रियादीनां स एव वेत्ति नापरः। तस्य कुतोऽयमतीन्द्रियज्ञानातिशयः । तथाऽन्योऽपि देशकालस्वभावविप्रकृष्टानामर्थानां द्रष्टा किमसम्भवी दृष्टः। यतो न हि तत्प्रतिक्षेपसाधनानि कानिचित् नैनं उपलीयन्ते । तत्साधन
सम्भवेऽपि यथायमस्य विशेषः, तथान्यस्यापि स्यादित्यनभिनिवेश एव युक्तः । 527a
यस्य प्रमाणसंवादि वचनं सोर्थ विद्यादि । न अत्यन्तपरोक्षेषु प्रमाणस्यास्ति सम्भवः ॥३१७।।
नापरः। अपरोपि पुरुषो जैमि न्याद्यविशिष्टो न तत्त्वमाचष्ट इति भेदव्यवस्थानं न न्याय्यमयुक्तित्वात्।
अथ कुतश्चिदनिर्देश्यरूपाद् बुद्धीन्द्रियादीनाम् (1) आदिशब्दादभ्यासस्यातिशयात् कारणात् स एव जै मि नि प्रभृतिर्वेदार्थम्वेत्ति नापरः: प्राकृतः पुरुष इश्तीष्यते। तदा तस्य जैमिनि प्रभृतेः कुतोयमतीन्द्रियज्ञानातिशयः । अतीन्द्रियस्य . वेदार्थतत्वस्य ज्ञानातिशयोन्यैरविदिततत्त्वैरविशिष्टस्य ।
भवतु वा जै मि नि प्रभृतिः पुरुषोतीन्द्रियार्थस्य वेत्ता। तथा जैमि न्यादिवदन्योपि पुरुषातिशयो बौ द्धा द्य भिमतो देशकालस्वभावविप्रकृष्टानामर्थानां द्रष्टा। किमसम्भवी । कस्मादविद्यमानो दृष्टो येन प्रतिक्षिप्यते। सोप्यतीन्द्रियार्थदयस्त्वितीष्यतां। न चेदभिमतोपि जै मि न्यादिर्मा भूत्। यतो न हि तत्प्रतिक्षेपसाधनानि। बौद्धा द्यभिमतपुरुषातिशयप्रतिक्षेपसाधनानि पुरुषत्वादीनि कानिचित् सन्ति (1) यानि नैनम्वेदार्थविवेककारिणं जै मि नि प्रभृति नोपलीयन्ते । न विषयीकुर्वन्ति। किन्तूपली यन्त एव। तेषामपि पुरुषत्वादियोगात्।
अथ पुरुषत्वादिसाधनसम्भवेपि जैमिन्यादेविशेष इष्यते। तदा यथायमती- . न्द्रियवेदार्थविवेचनलक्षणे विशेषोस्य जैमिनिप्रभृतेरिष्टः। तत्साधनसम्भवेपीति । तस्यातीन्द्रियार्थदर्शिपुरुषप्रतिक्षेपसाधनस्य पुरुषात्वादेः सम्भवेपि। तथान्यस्यापि पुरुषस्यातीन्द्रियार्थदर्शनं स्यादित्यनभिनिवेश एव भवतां मी मां स का नां युक्तः । ___ नातीन्द्रियार्थदर्शीति कृत्वा जै मि नि प्रभृतेर्वेदार्थज्ञानमिष्टमपि तु। यस्य वाक्यं प्रमाणसम्वादि । स पुरुषो वेदार्थविद् यदीष्यते। ___ जैमि नि प्रभृतेरेव च वेदार्थविवेचनं कुर्वतो वचनं प्रमाणसम्वादीति परो
मन्यते। 207a नेत्या द्या चा र्यः। नेदमुत्तरं युक्तं यास्मान्नह्यत्यन्तपरोक्षेषु वेदार्थेषु स्वर्गा
दिसाधनत्वेषु प्रमाणस्यास्ति सम्भवः ।