________________
च. आप्त-चिन्ता
५८५
मपि ज्ञानी कश्चित्कथं न वः ॥३१६॥ न वैदिकाः शब्दा एत भवन्तो ब्राह्मणा अयमस्माकमों ग्राह्यो नान्य इत्येवं विक्रोशन्ति। अनभिव्यक्तार्थविशेषसंसर्गा एव श्रुति अभिपतन्ति। तत्र एकः पुरुषः कञ्चिदर्थ कल्पयत्यन्योऽपि अपरम्।।
न च कश्चित् शब्दानां स्वभावप्रतिनियमः येन एकार्थानुक्रिया नापरस्य । किन्तु समयवशात् तं तं प्राविशन्तो दृश्यन्ते। तेषां अविदितार्थनियमानां तत्त्वं प्रत्यक्षावेशात् कश्चिद् दोषोपप्लुतोऽविद्वानेव प्राचष्टे नापर- इति न न्याय्यम्।
भिमतस्तत्ववित् । वेदार्थतत्त्वज्ञो नान्यः पुरुष इति किंकृतः। नात्र किञ्चित् कारणमस्ति मी मां स क स्य पुरुषत्वाविशेषात् सर्वो वा वेत्ति । न वा कश्चिदिति भावः। ___ अथ पुरुषत्वादिसाम्येप्यसाधारणशक्तियुक्तो वैदिकानां शब्दानामतीन्द्रियैरथैः सह सम्बन्धस्य वेत्ता कश्चिज्ज मि न्यादिः कल्प्यते (1) तदा तद्वज्जैमिन्यादिवत्। पुंस्त्वे पुरुषत्वे तुल्योपि कथमपीति निर्निमित्तमन्योपि कश्चिज्ज्ञानी ज्ञानातिशयवान्। कस्मान्न वो न युष्माकमभिमतो जै मि न्या दिवदन्योपि ज्ञानवान् प्रसज्यत इति यावत्।
नेत्यादिना व्याचष्टे । एत आगच्छत भवन्तो ब्राह्मणा अयमस्माकमर्थो भवद्भिाह्यो नान्य इत्येवंवैदिकाः शब्दा न विक्रोशन्ति न कथयन्ति येन तेभ्योर्थगतिः स्यात्। केवलमित्यवधारणे । अनभिव्यक्तार्थविशेषसंसर्गा एव श्रुति श्रोत्रविज्ञानमभिपतन्त्यारोहन्सि (1) अनभिव्यक्तोर्थविशेषेण सह संसर्गः सम्बन्धो येषामिति विग्रहः। तत्राज्ञातार्थसम्बन्धेषु शब्देषु श्रुतिमभिपतत्स्वेकः पुरुषः स्वयं कञ्चिदर्थ स्वेच्छानुरूपं कल्पयत्यन्योपि पुरुषोपरमर्थं कल्पयतीत्यनिर्णय एव पदार्थस्य।
206b ___ स्वाभाविकः शब्दानामर्थसम्बन्धस्तेनैकार्थप्रतिनियमो भविष्यतीत्याह । नेत्याह । न च कश्चिच्छब्दानां स्वभावप्रतिनियमः स्वभावेन प्रकृत्यार्थस्सह सम्बन्धो येनानेकार्थकल्पनायामपि केवलं समयवशात् तन्तमर्थमाविशन्तो वाच्यत्वेनोपाददाना दृश्यन्ते। तेषाम्वैदिकानां शब्दानां कश्चित् तत्त्वमाचष्टे नापर इति न न्याय्यमिति सम्बन्धः। कीदृशानामविदितार्थनियमानां। अविदितोर्थनियमो येषामिति विग्रहः। किं कारणम् (1) अत्यक्षावेशात्। अतीन्द्रियस्य स्वर्गादिसाधनस्यार्थस्य विषयत्वेनात्मसात्करणात। न ह्यतीन्द्रियार्थस्य शब्दस्यार्थनियममग्दिर्शनः शक्तो ज्ञातं। तत्राविद्वानेव। रागादिदोषोपप्लतः। कश्चिज्जैमि निः शव र स्वामी वा। तेषां शब्दानान्तत्त्वमाचष्टे । अस्यायमेवार्थ इति
७४