________________
५८४ प्रमाणवार्तिकस्ववृत्तिटीका (१।३१६)
नापि इतरेण सामान्यसिद्धिः, विशेषासम्भवस्य ज्ञातुं अशक्यत्वात् । ईदृशेषु अनुपलब्धेर्हेतुत्वप्रतिक्षेपात् ।
पुंस्त्वादिसाम्येऽपि कस्यचित् अतिशयस्य दर्शनात्, सम्भवद्विशेषेऽपि सामान्यासिद्धेरित्यपि उक्तं (प्राक्) ।
तस्मादनुमानमेतद् विपक्षवृत्तरदर्शनेऽपि, व्यतिरेकस्य सन्देहान् शेषवदसमर्थम् ।' अपि चैवंवादिनो जैमिनीयाः स्वमेव वादं विधुरयन्ति ।
अर्थोयं नायमर्थो न इति शब्दा वदन्ति न । कल्प्योयमर्थः पुरुषैरते च रागादिसंयुताः ॥३१५।। स एकस्तत्त्वविन्नान्य इति भेदश्च किंकृतः ।
526b
206a नापीत्यादिना सामान्यसाधनस्याभावमाह। नापीतरे'णाग्दिर्शिना पुरुषेण
तस्यातिशयवतः सामान्यसिद्धिस्तुल्यतासिद्धिः। किं कारणं (1) अतीन्द्रियदर्शनादिलक्षणस्य विशेषस्य यो सम्भवस्तस्य ज्ञातमशक्यत्वात। ईदशेष च परसन्तान
वत्तिषु पुरुषमात्राप्रत्यक्षेष्वतीन्द्रियार्थदर्शनादिषु। या काचिदसम्भवप्रसाधन्यनुप• लब्धिरुपादीयते। तस्या अनुपलब्धेः प्रागेव हेतुत्वप्रतिक्षेपात्।
किं च (1) पुंस्त्वादि साम्येपि यथास्वं संस्कारात् कस्यचित् प्रज्ञामेवादेरतिशयदर्शनात् तथान्यस्याप्यतिशयस्य सम्भाव्यत्वात्। तस्मात् सम्भवद्विशेषाः पुरुषासम्भवद्विशेषे चेतरपुरुषसामान्यासिद्धेरित्यप्युक्तं प्राक् ।
तस्माच्छेषवदनुमानमेतद् वक्तृत्वाद्यसमर्थ पुरुषातिशयासम्भवप्रतिपादनाय। विपक्षवृत्तेरदर्शनेपि। ____ यदि नाम विपक्षे पुरुषातिशये वक्तृत्वादेर्वृत्तिर्न दृश्यते। तथापि बाधकाभावेन व्यतिरेकस्य सन्देहादसमर्थ। अपि चैवंवादिन इति नास्त्यतीन्द्रियार्थदर्शी । पुरुष इत्येवंवादिनो जैमिनी याः स्वमेव वादमिति कथंचिदतिशयवतो जै मि न्यादेः सकाशाद् वेदार्थगतिर्भवतीति पुरुषातिशयाभ्युपगमवादं पुनर्नास्त्यतीन्द्रियार्थज्ञः पुरुषः कश्चिदित्यनया स्ववाचा विधुरयन्ति बाधन्तेऽतिशयवत्पुरुषप्रतिक्षेपेण वेदार्थगतेरसम्भवात् (1) तथा हि (1) अयमर्थोऽस्माकन्नायमर्थ इति स्वयम्वैदिकाः शब्दा न वदन्ति । तेनाग्निहोत्रशब्दानां योभिमतोर्थः स कल्प्यो भवेत पुरुष र्मी मां स कैः। तच्च नास्ति। यतस्ते हि पुरुषा रागादिसंयुता रागादियुक्ताः। ततो न तत्कल्पितोऽर्थः प्रमाणं।
अथ तस्य वेदार्थस्य कश्चि ज्जै मि न्या दि रेव वेत्ता कल्प्येत। तत्रैकपुरुषो
1 Bam-po-bcug-gcig-pa=एक