________________
च. प्राप्त - चिन्ता
कश्चिदतिशयवान् इति तस्य प्रतिक्षेपसाधनान्यपि प्रतिव्यूढानि । बुद्धीन्द्रियोक्तिपुंस्त्वादि साधनं यत्त वर्ण्यते ।
प्रमाणाभं' यथार्थास्ति न हि शेषवतो गतिः || ३१४॥ यत्तु बुद्धीन्द्रियोक्तिपुंस्त्वादित्यादि पुरुषातिशयप्रतिक्षेपसाधनं तत्तु श्रगमकमेव ' । प्रतिक्षेपसामान्यसाधनेऽयोगात् ।
५८३
न ह्यतीन्द्रियेषु तद्दर्शिनः प्रतिक्षेपः सम्भवति । सतामप्येषामज्ञानात् । श्रत एव विरोधस्यासिद्धेः । श्रविरोधिना च एकत्र सम्भवाविरोधादित्युक्तम् ।
प्रतिव्यूढानि प्रतिक्षिप्तानि । एतेन च परोक्तस्यातिशयप्रतिक्षेपसाधनस्य न विरुद्धाव्यभिचारित्वमुद्भाव्यते (1) किन्तर्हि पुरुषातिशयप्रतिक्षेपसाधनानि वस्तुबलायातानि न सन्त्येवेत्यनेन व्याजेन कथ्यते । न हि वस्तुबलायातं पुरुषातिशयं निराकर्तृ किंचित् साधनमस्ति ।
ननु चेदमस्ति विवक्षितः पुरुषो नातिशयवान् बुद्धिमत्त्वात् । इन्द्रियवत्वात् । वचनात् पुंस्त्वात् । रथ्यापुरुषवदिति ( 1 )
अत आह। बुद्धीन्द्रियेत्यादि । बुद्धिश्चेन्द्रियं च उक्तिश्च पुंस्त्वं चेति द्वन्द्वः । आदिशब्दात् प्राणादिमत्त्वादि । पुरुषातिशयनिराकरणसाधनं यत्तु वर्ण्यते (1) तत्सर्वं प्रमाणाभं प्रमाणाभासमनैकान्तिकमिति यावत् । किं कारणं (1) विपक्षवृत्तेः सन्देहेन सर्वस्य शेषवत्त्वात् । न हि शेषवत इत्यनैकान्तिकत्वात् । यथार्थेत्यविपरीता गतिरनुमेयप्रतिपत्तिरस्ति ।
यत्वित्यादिना व्याचष्टे । यत्तु पुरुषातिशयप्रतिक्षेपसाधनन्तत्त्वगमकमेवेति सम्बन्धः। तत्पुनः साधनं । बुद्धीन्द्रिययोगादित्यादि । कस्मादगमकमित्याह । प्रतिक्षेपेत्यादि । प्रतिक्षेपश्च सामान्यं च प्रतिक्षेपसामान्ये । तयोः साधने तयोरयोगात् । तथा हि (1) बुद्धिमत्त्वादिना साधनेन नास्ति 5 पुरुषातिशय इति प्रतिक्षेपो वा साध्येत । यद्वा योसौ पुरुषातिशयः स रथ्यापुरुषः समान इतीतरपुरुषसामान्यं साध्येत ।
तत्र न हीत्यादिना प्रतिक्षेपसाधनस्याभावमाह । न ह्यतीन्द्रियेष्वर्थेष्वतद्दशिनोतीन्द्रियार्थादर्शिनः प्रतिक्षेपः सम्भवति । किं कारणं (1) सतामप्येषामतीन्द्रियाणामर्थानामर्वाग्दर्शनस्याज्ञानात् । तस्मान्ना 'दर्शनमात्रात्प्रतिक्षेप इति
भावः ।
नापि विरुद्धविधानात् पुरुषातिशयस्य प्रतिक्षेपः यस्मादत एवातीन्द्रियत्वादेव पुरुषातिशयस्य बुद्धित्वादिना हेतुना । द्विविधस्यापि विरोधस्यासिद्धेः । अविरोधिना च वक्तृत्वादिना पुरुषातिशयस्यैकत्र सम्भवाविरोधादित्युक्तं प्राक् ।
526a