________________
५८२
प्रमाणवात्तिकस्ववृत्तिटीका (१।३१३) तादृशः प्रभाववानेव, तदन्यैरसाधारण शक्तित्वात् पुरुषातिशय एव समथितः स्यात्।
कृतकाः पौरुषेयाश्च मंत्रा वाच्याः फलेप्सुना। ___ न हि अकृतकानां प्रयोगः सम्भवति, न चाप्रयुक्तेभ्यः फलम् । एवं, पुरुषाधिष्ठानमन्तरेण असम्भवत्फलानां फलदर्शनात्, प्रयोगात् फलमिच्छता मन्त्रा कृतकाः पौरुषेयाश्च वाच्याः। कृतसमयकाव्यवत् ।
अशक्तिसाधनं पुंसामनेनैव निराकृतम् ॥३१३॥ प्रतिपादिता हि परुषकृता मन्त्रास्तदधिष्ठानाच्च फलदाः। तद, अस्ति
अपि च (1) केचित् तन्त्रज्ञा मन्त्रं कुर्वन्तीत्यभिदधता पुरुषातिशय एव समथितः स्यात्। यस्मात् सोपि तादृशस्तन्त्रज्ञो मन्त्रस्य कर्ता प्रभाववानेव । तदन्यैरतन्त्रज्ञैः पुरुषैरसाधारणशक्तित्वादिति कृत्वा । यतश्च पुरुषाधिष्ठितानामेव मन्त्राणां फलं। तस्मात् कृतकाः पौरुषेयाश्च फलदा इत्येवम्मन्त्रा वाच्याः फलेप्सुना। मन्त्राद् फलमिच्छता न नित्या मन्त्राः किन्तु कृतकाः कृतकत्वेपि न फलदाने पुरुषनिरपेक्षा इत्यर्थद्वयमादर्शयितुं कृतकाः पौरुषेयाश्चेति द्वयोपादानं ।
न हीत्यादिना व्याचष्टे। न हि नित्यानाम्वैदिकानां मन्त्राणां प्रयोग उच्चारणं सम्भवत्यनाधेयातिशयत्वात्। न चाप्रयुक्तेभ्यो मन्त्रेभ्यः फलमिति कृत्वा प्रयोगात फलमिच्छता कृतका मन्त्रा वाच्याः। पौरुषेयाश्च । पुरुषाधिष्ठिताश्च फलदा वाच्याः। किं कारणं (1) परुषाधिष्ठानमन्तरेण विनान्यतो भावशक्त्यादेरसम्भवत्फलानाम्मन्त्राणां पुरुषाधिष्ठानादेव फलदर्शनात् । यथा च न भावशक्त्या मन्त्रेभ्यः फलोत्पत्तिस्तथा प्रतिपादितं (1)
___ "सर्वस्य साधनन्ते स्युर्भावशक्तिर्यदीदृशी"त्यादिना (११२६७)। 205b निदर्शनं चाह। यो मदीयं काव्याद्येवं पठिष्यति' तस्य मयायमर्थः सम्पादनीय
इत्येवंकृतः समयो यस्मिन् काव्यादौ आदिशब्दाच्छिल्पस्थानादौ। स कृतसमयः काव्यादिः तस्मिन्निव तद्वत्। यथा तत्र काव्यादिपाठकानां पुरुषाधिष्ठानात् फलन्तद्वन्मन्त्रेष्वपीत्यर्थः । पुंसामतीन्द्रियार्थदर्शनं प्रति शक्तिर्नास्तीत्येवमशक्तिसाधनमसामर्थ्यस्य साधनं यन्नाम किञ्चित् मी मां स कै रुच्यते तत्सर्वमनेनैव मन्त्रकारिणां ज्ञानप्रभावातिशयसाधनेन निराकृतं ।।
प्रतिपादिता हीत्यादिना व्याचष्टे। प्रतिपादिता हि पुरुषकृता मन्त्रास्तदधिष्ठानाच्च फलदा मन्त्रा इत्येतदपि प्रतिपादितं । ___ न च सर्वे पुरुषा मन्त्रान् कर्तुमधिष्ठातुं वा शक्ताः । तदिति तस्मादस्ति कश्चिदतिशयवान् पुरुषो मन्त्रस्य कर्तेति। तस्यातिशयवतः पंसः प्रतिक्षेपसाधनान्यपि