________________
च. आप्त-चिन्ता
५८१
प्रभुप्रभाषस्तेषां स तदुक्तन्यायवृत्सितः ॥३१२॥ रथ्यापुरुषा अपि केचन तन्त्रज्ञा स्वयं कृतमन्त्रः किञ्चित् कर्म कुर्वन्ति । तथान्योऽपि मन्त्रस्य प्रणेताऽनतिशयश्च स्यादिति चेत् ।
न। तेषां प्रभाववतैवाधिष्ठानात् । तत्कृतं हि समयमनुपालयन्तः तदुपदेशेन च वर्तमानाः। तत्समयोपदेशनिरपेक्षाणां असामर्थ्यात्। तत्रापि तदाकारध्यानादेरेव प्रयोगात् । तस्मात् तदधिष्ठानमेव तत् तादृशमुन्नेयम् । अपि च ।
अत आह। येपीत्यादि। मन्त्रप्रतिबद्धानि शास्त्राणि तन्त्राणि तानि विदन्तीति ते तन्त्रविदः केचिदद्यत्वेपि मन्त्रानपूर्वान् कांश्चन कुर्वते। तन्न तेषां केवलानामसामर्थ्य। किन्तु यत् तन्त्रमाश्रितास्ते तस्य तन्त्रस्य प्रणेता यः पुरुषातिशयस्तस्य प्रभोः स्वामिनः स प्रभावः सामर्थ्य। कस्मात् (1) तदुक्तन्यायवृत्तितः। तस्मात् प्रभुणा यस्तेभ्यस्समयादिको न्याय उपदिष्टस्तस्यानुवर्तनात् । प्रभु'- 205a स्तुष्टस्तत्प्रणीतानपि मन्त्रानधितिष्ठतीति भावः।। ___ रथ्यापुरुषेत्यादिना पूर्वपक्षोपन्यासपूर्वकं कारिकार्थं व्याचष्टे। रथ्यापुरुषा अपीति सामान्यपुरुषा अपि केचन गारुडिकप्रभृतयो मन्त्रलक्षणतन्त्रज्ञाः किञ्चिद् विषादिशमनलक्षणं कर्म कर्वन्ति। न च ते विशिष्टाः सुरापानाद्यनुष्ठानात् । तथान्योपीति प्रभाववत्त्वेनाभिमतो मन्त्रस्य प्रणेताऽनतिशयश्च स्यात् । रथ्यापुरुषवदतिशयरहितश्च स्यात् मन्त्राणां च कर्तेति। तथा च प्रभाववान् पुरुषो न सिध्यतीति मन्यते।
नेत्यादिना परिहति। न प्रभावरहितानां मन्त्रकरणं (1) ये तु रथ्यापुरुषा अपि मन्त्रान् कुर्वन्ति तेषां पुरुषाणां प्रभाववतैव तन्त्रस्य प्रणेत्राधिष्ठानात् मन्त्रकरणसामध्यं। .
एतदेव दर्शयन्नाह। तत्कृतं हीत्यादि। तेन प्रभावातिशयवता पुरुषेण कृतसमयमनुपालयन्तो रक्षन्तः। तदुपदेशेन चेति प्रभावयुक्तपुरुषोपदेशेन च वर्तमाना मन्त्रक्रियासमर्थाः कुत एतत् ।
तदित्यादि तस्यं प्रभावतो यस्समयः। यश्चोपदेशस्तत्र निरपेक्षाणां पुंसां मन्त्ररचनायामसामर्थ्यात् । तत्र समयो यस्यातिक्रमात् पुनर्मण्डलप्रवेशादिः कर्त्तव्यो जायते। ततोन्यद्विधा नामुपदेश इत्यनयोर्भेदः। तत्रापीति रथ्यापुरुषकृतेष्वपि मन्त्रेषु तदाकारध्यानादेव। प्रभाववतः। पुंसश्चाकारध्यानादे (रे) व (1) आदिशब्दात् स्वभावचर्याध्यानस्य परिग्रहः। तेन मन्त्रस्य प्रयोगात् प्रवर्त्तनात् । यत एवन्तस्मात्तदधिष्ठानमेव प्रभाववत्पुरुषाधिष्ठानमेव तत्तादृशमुन्नेयं बोद्धव्यं । यत्ते स्वयंकृतैर्मन्त्रः कर्म कुर्वन्तीति ।