________________
५८० - प्रमाणवात्तिकस्ववृत्तिटीका (१।३१२) तत्प्रयोगोपकारविपाकधर्मणः तत्फलस्य कर्मणः कृतत्वात् ।
विनाऽपि विशेषपुरुषेण तस्यैवोपकारात् फलमिति चेत् ।
नैतदेवम्। पुरुषस्य प्राकारस्वभावचर्याऽधिमोक्षस्य वैयर्थ्यप्रसंगात् । तस्या
प्युपकारकत्वे सिद्धः पुरुषविशेषोऽसाधारणगुणः। तदधिमुक्तेरेव विषकर्मादि525b करणात्। तस्मान्न मन्त्राःपुरुषप्रणीता अपि तदुपयोगनिरपेक्षाः स्वभावेन फलदाः ।
( च ) प्राप्तचिन्ता येऽपि तन्त्रविदः केचिन्मन्त्रान्कांश्चन कुवते ।
एवाश्रयस्तेन विपाक: फलदानं स एव धर्मः स्वभावो यस्य स पुरुषाश्रयविपाकधर्मा। धर्म इति पूण्यविशेषः। तेनेति पुरुषेण कृतः पूर्वजन्मनि । स तथा तदाराधनेनेति। स धर्मस्तथा क्रौर्याद्याचरणात् । तदाराधनेन मन्त्रप्रणेतृपुरुषाराधनेन फलतीति। ____एतदेव स्पष्टयन्नाह। तदित्यादि। तेन मन्त्रप्रणेत्रा पुरुषेण विहिता क्रौर्ययुक्तव्रतादिप्रयोगस्तेनोपकारः। कर्मणः परिपोषः । तेन विपाकः फलदानं धर्मः स्वभावो यस्य तस्यैवंधर्मणः। तत्फलस्येति। इष्टफलस्य कर्मणः कृतत्वात् कारणात् । तदाराधनेन फलतीति। ___विनापि मन्त्रप्रणेवा पुरुवेण तदुपकारात् । तस्यैव यन्त्रस्य केवलस्य जपादिना व्यापारेणोपकारान्मन्त्रात्फ लमिति चेत्। ततश्च पुरुषाराधनेन फलतीति यदुक्तन्तदयुक्तमिति परो मन्यते। ___ नेत्यादि सिद्धान्त वा दी। नैतदेवं । किङ्कारणं (1) पुरुषेत्यादि। मन्त्रप्रणेतु: पुरुषस्याकारो वर्णसंस्थानादिः। स्वभावः शान्तरौद्रादिः। चर्या कायवाग्व्यापार- . लक्षणा चेष्टा । तेषामाकारादीनामधिमोक्षोऽधिमुक्तिस्तस्या वैयर्थ्यप्रसङ्गात् । . मन्त्रस्याधिष्ठाता पुरुषश्चेन्ना स्ति। किमर्थन्तस्याकारादीनधिमुच्येत् । अथेष्यते तस्यापि पुरुषस्योपकारकत्वन्तदा तस्यापि मन्त्रप्रणेतुः पुरुषस्य मन्त्रात् फलसिद्धिं प्रत्युपकारकत्वेऽङ्गीक्रियमाणे सिद्धः पुरुषविशेषोसाधारणगुणः। असाधारणा गुणा अस्येति विग्रहः। किं कारणं (1) तदधिमुक्तेरेव पुरुषविशेषाकारस्वभावचर्याधिमुक्तेरेव विषकर्मादिकरणात्। तस्मान्न मन्त्राः पुरुषप्रणीता अपि तदुपयोगनिरपेक्षाः पुरुषविशेषोपयोगनिरपेक्षाः स्वभावेन. प्रकृत्यैव फलदाः। किन्तु पुरुषविशेषोपयोगसापेक्षा एव।
यद्यसाधारणगुण एव पुरुषो मन्त्रस्य प्रणेता। कथं प्रभावादिविशेषरहिता अपि तन्त्रविदो मन्त्रान् भाषन्त इति (1)