________________
(२) कुमारिलंमत - निरासः
५७६
र्मात्मनो व्रतादेः धर्मस्य फलमिष्ट अश्नुते ।
न चैतस्य व्रतादेस्तदिष्टं फलं विपाकः, किन्तु पूर्वकृतस्य, ब्रह्महत्यादेशानुष्ठानात् ग्रामप्रति लम्भवत् । तस्य तु धर्मात्मनो व्रतस्यागामि फलं नेष्टम् । स तु मन्त्रादिप्रयोगः तस्येष्टफलस्य कर्मणः कथञ्चित् प्रकारेण उपकारात् पाचकः । चित्रत्वादुपकारशक्तेः ।
पुरुषविशेषाश्रयविपाकधर्मा धर्मः तेन कृतः स तथाऽऽराधनेन फलति ।
यदि द्वेषादिकृतत्वान्मन्त्रविधानेनानुष्ठितोपि क्रौर्यादिरधर्म एवं कथमिदानीमधर्मात्मनो व्रतादेरिति पूर्वोक्तात् । क्रौर्यादिलक्षणाद् व्रतात् । आदिशब्दादन्यस्मान्निहीनादशुचिधूपदानादिलक्षणात् । धर्मस्य फलमिष्टसम्भोगादिलक्षणं कथमश्नुते भजते जापी ।
नेत्यादि सिद्धान्त वा दी । न चैतस्याधर्मात्मनो व्रतादेस्तदिष्टं फलम्विपाकः कर्मफलं । किन्तु पूर्वकृतस्य शुभस्य कर्मणो विपाकः ( 1 ) किम्वदिति ( 1 ) आह । ब्रह्महत्याया आदेशस्तस्यानुष्ठानात् सम्पादनात् । ग्रामप्रतिलम्भवत् । यथा कश्चित् कञ्चित् पुरुषं नियुंक्ते । मारयेमं ब्राह्मणं अहन्ते ग्रामन्दास्यामीति । स तस्यादेशस्यानुष्ठानाद् ग्रामं प्रतिलभते । न च तद् ब्रह्महत्याया फलं । किन्तु तद्व्र (ह्म) हत्याचरणेनाराधितं पुरुषं सहकारिणं प्राप्य पूर्वकं शुभमेव कर्म तथा फलति ।
अधर्मात्मनस्तर्हि तस्य व्रतस्य किंफलमित्याह । तस्य तु क्रौर्यादिलक्षणस्याधर्मात्मनो व्रतस्यागामि भविष्यज्जन्भभावि फलमिष्टं नरकादि ।
यदि शुभस्य कर्मण इष्टं फलं किन्तेनाधर्मात्मना मन्त्रादिप्रयोगेणापेक्षितेनेति चेद् (1)
आह । स त्वधर्मात्मा । डा कि नी मन्त्रादिप्रयोगः । आदिशब्दात् क्रौर्यादिव्रतप्रयोगः । तस्येष्टफलस्य शुभस्य कर्मणः । इष्टम्फलं यस्य कर्मण इति विग्रहः । कथञ्चित् केनचित् प्रकारेणोपकारात् पाचकः फलस्य दायकः ।
कथं पुनः कुशलस्याकुशलमुपकारकम्भवतीति (1)
आह। चित्रत्वादुपकारशक्तेः । 7 सहकारिभावो हि चित्रः । कदाचित् कुश - 204b लस्याकुशलं सहकारि । अकुशलस्यापि कुशलं । यथात्यर्थमुदारकुशलकारिणो न नरकादिदुः खफलमशुभं कर्म कुशलं सहकारि प्राप्ये हैव जन्मनि । व्याध्यादिदुःखमात्रं दत्वा क्षीयते । अधर्मात्मको मन्त्रादिप्रयोगः । कथंचिदिष्टफलस्य कर्मण उपकारक इत्युक्तं ।
यत्र येन प्रकारेणोपकारस्तन्दर्शयन्नाह । पुरुष - विशेषो मन्त्रस्य प्रणेता स