________________
च. आप्त-चिन्ता
५६७
तृषु सम्भावितात् पुरुषाद् बहुलं प्रतिपत्तिदर्शनात् । ततोपि कथंचिद् विप्रलम्भसम्भवात् ।
किञ्च (1) परिमितव्याख्यातृपुरुषपरम्परामेव चात्र भवतामपि श्रृणुमः । तत्र कश्चित् द्विष्टाज्ञधूर्त्तानामन्यतमः स्यादपीति अनाश्वासः ।
तस्मान्नापौरुषेयाद् व्याख्यानान्नापि सामयिकाल्लोकव्यवहाराद् वेदार्थसिद्धिः । असामयिकत्वेपि नानार्थानां शब्दानां व्यवहारे दर्शनात् । कस्यचिदप्रसिद्धार्थस्याप्रसिद्धस्य वा पुनर्व्युत्पत्तिदर्शनेन सर्वत्र तदासं (? शं) काऽविनिवृत्तेः ( 1 ) सर्व्वेषां यथार्थनियोगेप्यवैगुण्येन यथासम' म ( ? ) यं प्रतीतिजननात्। इष्टा
प्रतानयन्तु नाम तेऽन्यथा । तथाप्यध्येतारो न तथा प्रतिपद्येरन्नित्याह । तदित्यादि । तस्य सम्भावितस्य पुरुषस्य प्रत्ययाच्च तदुक्तानां । सम्भावितप्रणेतृ ' पुरुषाभिप्रसन्नानामविचारेण वेदाध्ययनप्रतिपत्तेरन्यथासंप्रदायसम्भवः । पुरुषप्रामाण्यात् प्रवृत्तिमेव साधयन्नाह । बहुष्वप्यध्येतृषु मध्ये सम्भावितात् पुरुषाद् बहुलं लोके प्रवृत्तिदर्शनात् ।
ननु सम्भावितात् प्रतिपत्तौ सम्वाद एवेत्यत आह । ततोपि सम्भावितात् पुरुषात् कथञ्चित् केनचित् कारणेन सम्भावना भ्रंशभयादिना । विप्रलम्भस्य 21ob विसम्वादस्य सम्भवात् ।
उपचयहेतुमाह । किंचेत्यादि । परिमिताश्च ते व्याख्यातृपुरुषाश्च तेषां परम्परामेवात्र वेदव्याख्याने भवतां मी मां स का नां श्रृणुमः । तत्र तेषु मध्ये कश्चिद् वेदस्य व्याख्याता द्विष्टादीनामन्यतमः स्यात् । कश्चिद् वेददर्शने विद्विष्टः सोन्यथाप्युपदिशेत् । तथा कश्चिदज्ञ: 1 धूर्त्तो वा । तथा च वेदव्याख्यायामनाश्वासः ।
यत एवन्तस्मान्नापौरुषेयाद् वेदव्याख्यानाद् वेदार्थसिद्धिः । नापि सामयिकात् सांकेतिकाल्लोकव्यवहाराद्वेदार्थसिद्धिः । लोकस्य रागाद्युपप्लुतत्वात् ।
भवन्तु वा निसर्गसिद्धा वैदिकाः शब्दास्समयनिरपेक्षाः । एवमप्यसामयिकत्वेभ्युपगम्यमाने । व्यवहारे नानार्थानां गवादिशब्दानान्दर्शनात् । सर्वत्र वैदि - केपि शब्दे न तदाशंकाऽनिवृत्तेरिति सम्बन्धः । नानार्थाशंकाया अनिवृत्तेरित्यर्थः । लौकिकानामेव नानार्थत्वन्न वैदिकानामिति चेदाह । कस्यचिदित्यादि । तस्यापि वैदिकस्य कस्यचिद प्रसिद्धार्थस्येति यत्र शब्दः प्रसिद्धो नार्थस्तस्याप्रसिद्धस्य वा स्वरूपेण शब्दस्य । पुनर्व्युत्पत्तिप्रदर्शनेनार्थः कल्पनीयः पुरुषः । तथा च सति पुनः किं यथा स्थितमेवार्थं पुरुषो वैदिकानां शब्दानामुपदिशति किम्वाविपरीतमिति सर्वत्र नानार्था शङ्काया अनिवृत्तेः ।
अनिष्टेर्थे प्रयुक्ता अपि वैदिकारशब्दा न तत्र प्रतीतिं जनयन्तीत्यप्ययुक्तं ।