SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ 36b ५६८ प्रमाणवात्तिकस्ववृत्तिटीका (१।३२२) निष्टयोरविशेषात्। अविशिष्टानां सर्वार्थेष्वेकमर्थमत्यक्षसंयोगमनत्यक्षदर्शिनि पुरुषसामान्ये को विवेचयेद् यतो लोकात्प्रतीतिः स्यात्।। ___अपि च। स्वयमप्ययं न सर्वत्र प्रसिद्धिमनुसरति । यस्मात् (1) स्वर्गोर्वश्यादिशब्दश्च दृष्टो रूढार्थवाचकः। अनेनैव वर्ण्यमानः। मनुष्यातिशायिपुरुषनिकेतेतिमानुषसुखाधिष्ठानो नानोपकरणः स्वर्गः (1) तन्निवासिन्यप्सरसा (?) उर्व सी (?शी) नामेति लोकवादः (1) तमनादृत्यान्यामेवार्थकल्पनामयं कुर्वाणः शब्दान्तरेषु कथं प्रसिद्धि प्रमाणयेत्। तत्राविरोधादभ्युपगम इति चेत्। न। अत्राप्यतीन्द्रिये विरोधसिद्धेः। यतः सर्वेषां शब्दानां लौकिकानां वैदिकानां च यथार्थनियोगेपि। वीप्सायामव्ययीभावः। यस्मिन् यस्मिन्नर्थे नियोगस्संकेत स्तस्मिन् सत्यप्यवैगुण्येन तत्र तत्रार्थे यथासमयं यथासंकेतं प्रतीतिजननात्। न चानिष्टेन्यथाप्रतीतिजननं । यत इष्टानिष्टयोरर्थयोः प्रत्यासत्तिविप्रकर्षाभावेन प्रतीतजननस्याविशेषात् । ततश्चाविशिष्टानां सर्वार्थेषु वैदिकानां शब्दानामेकमर्थं किम्विशिष्टमत्यक्षसंयोगं (1) शब्देन सह सम्बन्धो यस्य स तथोक्तः। अनत्यक्षदर्शिनि। अग्दिर्शिनि पुरुषसामान्ये को विवेचयेत् (1) नैव कश्चिद् विवेचयेत् । यतो लोकात् प्रतीतिः स्यात् । अपि च (1) अयं मी मां स कः स्वयमपि न सर्वत्र वेदे प्रसिद्धिमनुसरति । येन प्रसिद्धाल्लोकप्रवादाद् वेदार्थगतिः स्यात्। किं कारणं । यस्मात् स्वर्गोर्वश्यादिशब्दश्च । स्वर्गशब्द उर्वर्शी शब्दः। आदिशब्दान्न न्द न व नादि शब्दश्चारूढार्थस्याप्रसिद्धार्थस्य वाचकोऽनेन वेदवादिना निर्वर्ण्यमानो व्याख्यायमानो दृष्टः। तथा हि प्राकृतपुरुषातिशायिनो ये पुरुषं विशेषास्तेषां निकेतः स्थानं। . मानुषातिक्रान्तं सुखमतिमानुषं तस्यातिमानुषस्य सुखस्याधिष्ठानमाश्रयः। नाना211a प्रकाराण्युपकरणान्युपभोगवस्तूनि यस्मिन् । स नानोपकरणः' स्वर्ग इति लोकप्र वादः तन्निवासिनी स्वर्गनिवासिन्यप्सरा उर्वशी नामेति लोकप्रवादः। तं लोकप्रवादमनादत्य मनुष्येष्वेव निरतिशया प्रीतिः स्वर्गः। उर्वशी चारणिः। पात्री वेत्यादिना। लोकप्रसिद्धादर्थादन्यामेवार्थकल्पनामयं जैमि न्यादिः कुर्वाणोग्निहोत्रादिशब्दान्तरेष्वर्थनिर्णये। कथं प्रसिद्धि प्रमाणयेत्। नैव प्रमाणयेदिति यावत्। . तत्राग्निहोत्रादिशब्देषु लोकप्रसिद्धार्थकल्पनाया अविरोधात् प्रतीतस्यैवार्थस्याभ्युपगम इति चेत्। स्वर्गोर्वश्यादिशब्देषु तु प्रसिद्धार्थाभ्युपगमे प्रमाणविरो धादनभ्युपगम इति परो मन्यते।
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy