________________
च. प्राप्त-चिन्ता
५६६
अन्यत्राप्यविरोधस्य दुरन्वयत्वात् । विरुद्धामप्यग्निहोत्रात् स्वर्गावाप्ति मान्द्यादयं न लक्षयेदपि। विरोधाविरोधौ च बाधकसाधकप्रमाणवृत्ती (1) तौ चात्यक्षे नाभिमते। तत्कथं तद्वशात् प्रतीतिः।।
न च वचनवृत्तिरेवाविरोधोऽन्यत्रापि प्रसंगात्। अपौरुषेय आगमस्तस्य प्रवादा (द) र्थसिद्धिस्तत्र पुनविरोधचिन्तायामनाश्वास आगमे स्यात्। सत्यपि
नेत्यादिना सिद्धान्त वा दी। भेदमनन्तरोक्तं युज्यते। यस्मादत्रापि स्वर्गोर्वश्यादिशब्देषु लोकप्रसिद्धतीन्द्रियेर्थेभ्युपगम्यमाने। प्रमाणेन विरोधासिद्धः न पत्र प्रत्यक्षमनुमानं वा बाधकं प्रमाणमस्ति। अन्यत्रापीत्यग्निहोत्रादिशब्देष्वपि लोकप्रसिद्धार्थकल्पनायामविरोधस्य दुरन्वयत्वात्। साधकप्रमाणाभावेन दुर्बोधत्वात्।
एतदेव साधयन्नाह। विरुद्धामपि यथाप्रसिद्धामग्निहोत्रात् स्वर्गावाप्ति मान्दद्यादयं जै मि न्या दिर्न लक्षयेदपि कदाचिदिति संशयः। किं च (1) विरोधाविरोधौ च नान्यावेव (1) किन्तर्हि (1) बाधकसाधकप्रमाणवृत्ती। यथोक्तस्यानुपलम्भाख्यस्य बाधकस्य प्रमाणस्य वृत्तिविरोधः। साधकस्य प्रत्ययानुमानस्य प्रमाणस्य वृत्तिरविरोधः । ते च विरोधविरोधस्वभावे । बाधकसाधकप्रमाणवृत्ती। अत्यक्षेऽतीन्द्रिये वस्तुनि नाभिमते। न हि देशादिविप्रकृष्टेषु स्वर्गादिसाधनेषु बाधकं साधकं च प्रमाणं प्रवर्तते। यदा चैवन्तत्कथं नैव तद्वशादिति विरोधाविरोधवशात्। विरोधवशोत् स्वर्गादिशब्देषु प्रसिद्धार्थप्रतीतिरविरोधवशाच्चाग्निहोत्रादिशब्देषु प्रसिद्धार्थप्रतीतिः। . .
__ अथ मतं (1) न साधकप्रमाणवृत्तिरविरोधोतीन्द्रिमेणे किं त्वागमसंज्ञितस्याग्निहोत्रादिवचनस्य लोकप्रसिद्धार्थवाचकत्वेन प्रवृत्तिरेवाविरोध इति (1)
अत आह। न चेत्यादि। लोकप्रसिद्धार्थवाचकत्वेनाग्निहोत्रादिवचनस्य प्रवृत्तिरेवाविरोधो न च। किं कारणम् (1) अन्यत्रापि स्वर्गोर्वश्यादिशब्देष्वपि स्वर्गादिवाचकत्वेन प्रवृत्तेरविरोधप्रसङ्गात् । तथा हि (1) स्वर्गोर्वश्यादिशब्दाःस्थानाप्सरोविशेषादिष्वेव प्रवृत्ता लोके दृश्यन्ते। ततश्चाविशेषादुभयत्र प्रसिद्धार्थपरिग्रहोस्तु। न चैकत्रापि। ___किं च (1) अपौरुषेयो वेदाख्य आगमः स च स्वमर्थं स्वयं न प्रकाशयति किन्तु तस्यागमस्य लोकप्रवादादर्थसिद्धिरभ्युपगम्यते। तत्र पुनर्लोकप्रसिद्धयङगीकरणेपि विरोधचिन्तायां क्रियमाणायां सर्वत्रागमेऽनाश्वासः स्यादतीन्द्रिये विरोधाविरोधयोनिश्चेतुमशक्यत्वात् ।
अनाश्वासमेव साधयन्नाह। सत्यपीत्यादि । सत्यपि तस्मिन्नपौरुषेय 211b