________________
६००
प्रमाणवात्तिकस्ववृत्तिटीका ( १।३२२ )
तस्मिन्नत 'थाभावादर्थस्याप्रमाणवृत्तेरन्यस्यापि शंकनीयत्वात् ।
तदुक्तम् (1) "अग्निहोत्रं जुहुयात् स्वर्गकाम" इत्यत्र श्वमांसभक्षणचोदनाविकल्पो भवत्विति । स न भवति प्रदेशान्तरेषु तथार्थस्य वचनात् । न (1) तस्यार्थापरिज्ञानात् । प्रदेशान्तरेष्वपि तथाविधार्थकल्पनाया अनिवार्यत्वात् ।
यदि हि क्वचिद् विदितार्थो' यमपौरुषेयः शब्दराशिः स्यात् तदा ततोर्थप्रतीतिः स्यात् । ते तु बाहुल्येप्यन्धा एव सर्व इति यथेष्टं प्रणीयन्ते। तस्मात् (1) शब्दान्तरेषु तादृक्षु तादृश्येवास्तु कल्पना ।। ( ३२२) यादृश्यग्निहोत्रं जुहुयात् स्वर्गकाम इत्यस्य वाक्यस्य ।
अपि च ।
प्रसिद्धिश्च नृणां वादः प्रमाणं स च नेष्यते ।
आगमे । स्वर्गादिशब्दवाच्यस्य स्वर्गाद्यर्थस्यातथाभावात् । तथाभावस्तथात्वं (1) यथा लोकेप्रसिद्धस्वर्गार्थग्रहणमतथाभावादप्रसिद्धार्थग्रहणादन्यस्याप्यग्निहोत्रादिशब्दस्य शंकनीयत्वात् । किमस्य लोकप्रसिद्ध एवार्थः किम्वा स्वर्गादिशब्दवदन्य एवेति । एतदेव कुत: ( 1 ) प्रमाणवृत्तेः । न ह्यत्र लोकप्रसिद्धार्थग्रहणे प्रमाणं प्रवर्त्तत इति । 1
यदुक्तमित्यादि परः । यदुक्तम् (1) “अग्निहोत्रं जुहुयादि "त्यत्र वाक्ये श्वमांसभक्षणस्य चोदनाभिधानन्तस्य विकल्पः कल्पना भवत्विति । स दोषो न भवति । किं कारणम् (1) वेदस्यैव प्रदेशान्तरे तथेति भूतविशेषे घृतादिकं प्रक्षिपेदित्येवमस्याग्निहोत्रादिवाक्यास्यार्थ चर्चनात् । व्याख्यानात् ।
नेत्यादि सिद्धान्तवा दी । नेदमुत्तरं युज्यते । तस्य प्रदेशान्तरस्थस्य व्याख्याभूतस्य वाक्यस्यार्थापरिज्ञानात् । ततश्च प्रदेशान्तरेष्वपि व्याख्याभूतेषु तथार्थकल्पनाया इति । श्वमांसभक्षणकल्पनाया अनिवार्यत्वात् ।
यदीत्याद्यस्यैव समर्थनं । यदि ह्ययमपौरुषेयो वेदाख्यः शब्दराशिः क्वचित् प्रदेशान्तरे विदितार्थः स्यात् तदा ततो विदितार्थात् प्रदेशान्तरात् परिशिष्टस्यार्थप्रतीतिः स्यात् । यावता ते तु वैदिकाः शब्दा बाहुल्येप्यपरिज्ञानार्थ एव सर्व इति कृत्वा पुरुषेण यथेष्टं प्रणीयन्ते व्याख्यायन्ते ।
यत एवन्तस्माच्छब्दान्तरेषु तादृश्विति । अग्निहोत्रं जुहुयादित्यादि वाक्या'नाम्व्याख्याभूतेषु तादृश्येवास्तु कल्पना । कीदृशी ( 1 ) इत्याह । यादृश्यग्निहोत्रजुहुयात्स्वर्गकाम इत्यस्य कल्पना कृता प्रदेशान्तरेपि श्वमांसभक्षणकल्प - नास्त्विति यावत् ।
अपि च प्रसिद्धिश्च नान्यदेव किंचित् । किन्तर्हि (1) नृणां पुरुषाणां वादः