________________
च. आप्त-चिन्ता
ततश्च भूयोर्थगतिः किमेतद् द्विष्टकामितं ॥ (३२३) न प्रसिद्धिर्नामान्यान्यत्र जनप्रवादात् (1) ते च सर्वे जना रागाद्यविद्यापरीतत्वावसंभावनीययाथातथ्यवचनाः (1) तदेषां प्रवादो न प्रमाणं।
न हि कस्यचिदपि सम्यग् (?)प्रतिपत्तेरभावे बाहुल्यमर्थवद् भवति । पा र सी क मातृमिथ्याचारवत्।
तेषामेव पुरुषाणां वचनात् पुनः परोक्षार्थसंप्रतिपत्तिरिति कथं तदेव युगपद् देष्यं च काम्यं च।
अर्थे प्रसिद्धिमुल्लंघ्य कल्पने न निबन्धनं ।
प्रसिद्धरप्रमाणत्वात् तद्ग्रहे किन्निबन्धनं ॥ (३२४) प्राप्तप्रतिलोमनेनान्यत्र प्रवृत्तिर्गुणदोषसन्दर्शनेन युक्तेति प्रसिद्धरन्वय इति
स च वादः प्रमाणन्नेष्यते भवता। सर्वपुरुषाणां रागाद्युपप्लुतत्वात् । भूय इति पुनः । ततश्च लोकप्रवादादप्रमाणत्वेन पूर्वं व्यवस्थापितात् पुनर्वेदार्थगतिरिति युगपत्किमेतद्विष्टकामितं । यदेव वस्त्वप्रमाणत्वेन द्विष्टं। तदेव पुनः प्रतिपत्तिहेतुत्वेन कामितमभिलषितमिति परस्परविरोधः।
न प्रसिद्धिर्नामान्या जनप्रवादात्। किन्तु जनप्रवाद एव प्रसिद्धिः। ते च सर्वे जना असम्भावनीययाथातथ्यवचना असम्भावनीयं याथातथ्यमविपरीतत्वं यस्मिन् वचने। तदसम्भावनीययाथातथ्यं वचनं येषामिति विग्रहः। किं कारणं (1) रागाविद्यापरीतत्वात्। रागाविद्याभ्यां व्याप्तत्वात्। तदिति तस्मादेषां जनानां प्रवादो न प्रमाणं । ___बाहुल्याज्जनस्य तत्प्रवादः प्रमाणमित्यपि मिथ्या। यतः (1) न हि बहूनां जनानाम्मध्ये कस्यचिदेकस्यापि पुरुषस्य सम्यकप्रतिपत्तेरभावे सति लोकस्य बाहुल्यमर्थवद् भवति प्रयोजनवद् भवति। किमिव (1) पारसी केत्यादि। यथा बहुभिः पारसीकर्मा'तरि मैथुनाचरणान्न तन्न्याय्यम्भवति । एवं बाहुल्येपि रागादि- 212a मतामतीन्द्रियेर्थे वचनमप्रमाणमेवेति ।
अथ तेषामेव रागादिमतां पुरुषाणां वचनात् पुनः परोक्षस्याग्निहोत्रादिशब्दवाच्यस्यार्थस्य प्रतिपत्तिरिति। कथन्तदेव युगपदेकस्मिन्नेव काले द्वेष्यं च काम्यं च युज्यते।
अग्निहोत्रादिशब्दस्य यस्मिन्नर्थे लोकप्रसिद्धिस्तामुल्लंध्या त्यक्त्वा। ततोर्थान्तरस्य श्वमांसभक्षणादेः कल्पने न निबन्धनं कारणमिति। तस्मात प्रसिद्धिरेव गृह्यत इत्येतदप्ययुक्तं । यतः प्रसिद्धरप्रमाणत्वात् तद्ग्रहे प्रसिद्धिग्रहे किनिबन्धनं (1) नैव किञ्चिदिति प्रसिद्धरपि ग्रहो माभूदिति।