________________
६०२
प्रमाणवात्तिकस्ववृत्तिटीका (१।३२५)
चेत् । न (1) प्राप्तेः प्रमाणवृत्तिलक्षणत्वात्। यत्किचनग्रहणं हि प्रसिद्धिमप्रमाणय तस्तन्मुखेन प्रतीतिः (1) न्यायात् प्राप्तिप्रतिषेधात् तुल्या स्वपरविकल्पयोरुभयथापि वृत्तिरिति कः प्रसिद्धावनुरोधः।
अपि चेयम् (1) उत्पादिता प्रसिद्धथैव शङ्का शब्दार्थनिश्चये । यस्मान्ना(ना)थवृत्तित्त्वं शब्दानां तत्र दृश्यते ॥ (३२५)
न (1) प्रसिद्धेरेकार्थनिश्चयः शब्दानान्तत एव शङ्कोत्पत्तेः। नानार्था हि 37a शब्दा लोके दृश्यन्ते। लोकवादश्च प्रतीतिः। अत एव नानार्थतेति। ततो नियमो
प्राप्त्येत्यादिना पूर्वार्द्धन्तावद् व्याचष्टे । प्रसिद्ध्या प्राप्तस्यार्थस्य प्रतिलोमनेन त्यागेनान्यत्राप्रसिद्धेर्थे प्रवृत्तिर्गुणदोषदर्शने सति युक्ता। यदि प्राप्तेर्थे दोषदर्शनं स्यादप्राप्ते च गुणदर्शनं । न चाग्निहोत्रादिशब्दानां प्रसिद्धेर्थे दोषदर्शनमस्त्यप्रसिद्ध वा गुणदर्शनन्ततः प्रसिद्धरेवान्वयोनुगमनमिति चेत्।। ___ नेत्यादिना प्रतिषेधति । एतच्च पश्चार्द्धस्य विवरणं । नैतदेवं (1) किंङ्कारणं (1) प्राप्तेः प्रमाणवृत्तिलक्षणत्वात् । साधकेन हि प्रमाणेनार्थस्य प्राप्तिनिश्चीयत इति प्राप्तेः प्रमाणवृत्तिलक्षणत्वमुच्यते। न च प्रसिद्धिः प्रमाणं येन सिद्धोर्थो न्यायप्राप्तः स्यात्। ततश्च तामेनां प्रसिद्धिमप्रमाणयतो मी मां स क स्य तन्मुखेन प्रसिद्धिद्वारेणाग्निहोत्रादिशब्दवाच्यस्यार्थस्य या प्रतीतिः सा यत्किञ्चन. ग्रहणमप्रमाणकत्वात् । यथा कथञ्चित् तद्ग्रहणमित्यर्थः ।
ततश्चाग्निहोत्रादिशब्दस्य लोकप्रसिद्धोर्थो न्यायप्राप्तो न भवतीत्येवं न्यायाल्लोकप्रसिद्धस्यार्थस्य प्राप्तिप्रतिषेधात् कारणादग्निहोत्रादिशब्दानामिच्छयार्थः परिकल्पनीयः।
तत्र मी मां स कैरग्निहोत्रादिशब्दानां योर्थः परिकल्प्यते दहनद्रव्यादिलक्षणो यश्च परेण श्वमांसभक्षणलक्षणस्तयोः स्वपरविकल्पयोरुभयथापीति यदि प्रसि
द्यनुपालनमथ नानुपालनन्तथापि प्रमाणाभावादिच्छया परिग्रहे तुल्या वृत्तिरिति कृत्वा कः प्रसिद्धानुरोधो येन प्रसिद्धरर्थकल्पना क्रियते। ____ अपि च (1) प्रसिद्ध्यैव सर्वशब्दानामर्थनिश्चये। इयन्नानार्थत्वेन शंकोत्पादिता। किं कारणं (1) यस्मान्ना (ना) श्रवृत्तित्वमग्न्यादिशब्दानान्तत्र प्रसिद्धी वृश्यते। . नेत्यादिना व्याचष्टे। न प्रसिद्धेस्सकाशादेकार्थनिश्चयः शब्दानाम्वैदिकानां । किं कारणं (1) तत एव प्रसिद्धेरेव शंकोत्पत्तेः। तथा हि नानार्था अग्न्यादिशब्दा लोके वृश्यन्ते । तच्च नानार्थदर्शनं लोकवादो लोकप्रवादश्च प्रतीतिरत एव