________________
च. आप्त-चिन्ता
६०३
न युक्तः ।
अन्यथासंभवाभावान्ना'नानाशक्तः स्वयं ध्वनेः । अवश्यं शङ्कया भाव्यं नियामकमपश्यतां ॥ (३२६)
इत्यन्तरश्लोकः (1) तस्मादविदितार्थविभागेष शब्देष्वेकमर्थमत्यक्षसंयोगमनालम्बनसमारोपन्निश्चित्य व्याचक्षाणो जै मि निः तद व्याजेन स्वमेव मतमाहेति न तीर्थकरान्तरादस्य विशेषम्पश्यामः।
तथा हि (1) तदर्थवचनव्यापारस (?शू)न्यस्य तत्सामारोपेणाभिधानं न स्वम्वचनम (ति)शेते। तत्कारिणा केवलम्मिथ्याविनीततैवात्मनः समुद्योतिता
लोकवादाना (ना) र्थतेति कृत्वा ततो लोकवादाद् वैदिकानां शब्दानामेकार्थ' नियमो 212b न युक्तः ।
अनियतार्थत्वमेव द्रढयन्नाह । अन्यथेत्यादि । स्वयं स्वभावतो नानाशक्तेरनेकार्थप्रतिपादनयोग्यस्य ध्वनेः शब्दस्यान्यथासम्भवाभावात् । अभिमतादर्थादर्थान्तरे वृत्तिरन्यथा। तस्या अर्थान्तरवृत्तेरसम्भवोन्यथाऽसम्भवस्तस्याभावात्। प्रतिषेधद्वयेन विधेरभ्युपगमादन्यथापि सम्भवस्य भावादिति यावत्। ततश्चातीन्द्रियार्थवृत्तिषु वैदिकेषु शब्देष्ववश्यमनेकार्थवृत्तित्वेन शंकया भाव्यं । केषां नियामकमपश्यतां पुंसां प्रतिनियतविषयसाधकं प्रमाणमपश्यतां । (३२६) ___यत एवन्तस्माद् (1) अविदितः अर्थविभागो येषामिति विग्रहः। तेष्वविदितार्थविभागेषु शब्देष्वेकमर्थमभिमतं (1) किं भूतम् (1) अत्यक्षसंयोग। अत्यक्षोतीन्द्रियस्संयोगः शब्देन सह सम्बन्धो यस्यति विग्रहः। आलम्बनं प्रमाणन्तदभावादनालम्बनो निःप्रमाणकस्समारोपो यस्य स तथोक्तः। तमेवं भूतमर्थम्विनिश्चत्य व्याचक्षाणो जैमि निः। तद्व्याजेनेति वेद एवं प्राहेति वेदोपक्षेपेण स्वमेव मतमाहेति कृत्वा यस्तीर्थ्य (? थे) करो निर्व्याजमेवमाह। अहमेव स्वयम्वदामीति। तस्मात् तीर्थ्य (?र्थ) करान्तरादस्य जै मि नेर्न विशेष पश्यामः। ____ अविशेषमेव साधयन्नाह। तथा होत्यादि। स चासावर्थश्चेति तदर्थस्तस्य प्रकाशनम्वचनं । तत्र व्यापारस्सामर्थ्यन्तेन शून्यस्य रहितस्य वेदस्य। तत्समारोपेणेत्यर्थप्रकाशनव्यापारसमारोपेण ........... एवम्वक्तीति यदभिधानन्त (........) स्ववचनमेव तस्य तदिति यावत्। तत्कारिणा वचनव्यापारशून्ये वेदेर्थप्रकाशनव्यापारसमारोपकारिणा जैमिनि ना केवलम्मिथ्याविनीततैवात्मनः समुयोतिता स्यात् । न तु पौरुषेयाद् वचनादस्य विशेषः ।