Book Title: Praman Varttikam
Author(s): Rahul Sankrutyayan
Publisher: Kitab Mahal

View full book text
Previous | Next

Page 622
________________ ६०४ प्रमाणवार्तिकस्ववृत्तिटीका (१।३२७) स्यात्। तथा हि। एष स्थाणुरयम्मार्ग इति वक्तीति कश्चन । अन्यः स्वयम्ब्रवीमीति तयोर्भेदः परीक्ष (१क्ष्य)तां । (३२७) निरभिप्रायव्यापारवचने स्थाणौ समारोप्योपदिशतः स्वतन्त्रस्य वा (1) स्वत्तिवचनोपगमे न कश्चिद्विशेषोऽन्यत्र जडस्य प्रतिपत्तिमान्द्यात्। अपि च (1) अर्थनियमे सत्येनं जै मि नि जानीयात् । स एव शब्दस्य (1) __ सर्वत्र योग्यस्यैकार्थद्योतने नियमः कुतः । न हि शब्दस्य स्वभावतः कश्चिदर्थः स्वभावनियतः सर्वत्र योग्यत्वात् । अयोग्यत्वे च तदप्रच्युतेरविधेयस्य पुरुषाणां क्वचिदुपनयनापनयनासम्भवात् । एतदेव स्फुटयन्नाह। तथा होत्यादि । कः पन्था पा ट लि पुत्रं गच्छतीति पृष्टः कश्चन पुरुष आह । न जाने स्वयमहं केवलमेष स्थाणुरयं मार्ग इति वक्तीत्येवमेको मार्गोपदेशसामर्थ्यशून्यस्थाणुव्याजेन मार्गमाचष्टे। अन्यस्त्वाह। न स्थाणोर्वचनसामर्थ्य मस्त्यहमेव स्वयं ज्ञात्वायं मार्ग इति अवीमीति। तयोरेवमभिदधतोः स्वयम्वचनभेदः परीक्ष्यतां यद्यस्ति नैवास्तीत्यभिप्रायः । निरभिप्राय इत्यादिना व्याचष्टे। अभिप्राय इदं चेदं च करिष्यामीति चेतना। तत्पूर्वकः प्रयत्नो व्यापारः । अभिप्रायश्च व्यापारश्च वचनं च । तानि न विद्यन्ते यस्मिन्स तथोक्तः । तस्मिन्नेवम्भूते स्थाणौ मार्ग प्रकाशकत्वं समारोप्योपविशत एकस्य पुंसः स्वतन्त्रस्य वा स्थाणुनिरपेक्षस्यापरस्य मार्गमुपदिशत इति सम्बन्धः। एतयोर्द्वयोः पुरुषयोः स्वयम्वचनोपगमे न कश्चिद्विशेषोन्यत्र जडस्य प्रतिपत्तिमान्द्यात् जडस्य श्रोतुः प्रतिपत्तिमान्द्यमेव विशिष्यते। यतोभिप्रायादि213a शून्यस्य स्थाणोर्वचनं प्रतिपद्यते स्थाणुरेव वक्तीति। एवं' जै मि नेर्वेदव्याजेन स्वमतं ब्रुवतो जडः प्रतिपत्तिमान्द्यात् वेद एवं ब्रूत इति प्रतिपद्यते। अपि च वैदिकस्य शब्दस्यैकार्थप्रतिनियमे सत्येनमेकार्थप्रतिनियमं जै मि निर्जानीयात् । यावता शब्दस्य वाचकस्य सर्वत्रार्थे वाचकत्वेन योग्यस्यैकार्थद्योतने नियतिः कुतो नैव। न हि शब्दस्य कश्चिदर्थः स्वभावेन निसर्गसिद्ध्या नियतोस्ति । किं कारणं (1) सर्वत्र वाच्येर्थे योग्यत्वाच्छब्दस्य। ____ अथ पुनर्न योग्यता सर्वत्रार्थे शब्दस्य तदाप्ययोग्यत्वे च तवप्रच्युतेरयोग्यतास्वभावान्नित्यस्य शब्दस्याप्रच्युतेः कारणात् पुरुषाणामविधेयस्यानायत्तस्य क्वचिदर्थे उपनयनम्वाचकत्वेन नियोजनं। नियुक्तस्याप्यपनयनं। नेदानीमयं शब्दो वाचक इति तस्यासम्भवात्। भवति च (1) तस्मात् सर्वत्र शब्दा योग्या

Loading...

Page Navigation
1 ... 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642