Book Title: Praman Varttikam
Author(s): Rahul Sankrutyayan
Publisher: Kitab Mahal

View full book text
Previous | Next

Page 627
________________ ६०६ (३) जैमिनिमत-निरासः तुल्यरूपतया फलानां तुल्यरससाधनवत् । एकस्थाल्यान्तर्गमाद् दृष्टवनदृष्टतण्डुलपाकसाधनवच्चासाधनमुक्तं। तदसाधनत्वन्यायश्च पूर्वमेवोक्तः। उक्तञ्चेदमागमलक्षणमस्माभिः। तत्तु सर्वस्य शक्यविचारस्य विषयस्य यथास्वं प्रमाणेन विधिप्रतिषेधविशुद्धो (?सिद्धौ) नान्तरीयकताभावेपि शब्दानामर्थेषु च संशयितस्य प्रवृत्तिः (1) तत्र कदाचिदविसम्वादसम्भवात् । नन्वन्यत्र दृष्टप्रमाणोपरोधस्य पुरुषस्य प्रवृत्तिरिति । यः पुनः प्राकृतविषयस्य सम्बन्धः। क्व (1) नै या यि का नां शेषवदनुमानस्य व्यभिचारमुद्भावयता प्र मा ण स मु च्च ये। किमिव। यथा तुल्यरूपतया हेतुभूतयाऽनास्वादितानामपि फलानामास्वादितफलेन। तुल्यरससाधनवत्। एकस्थाल्यन्तर्गमादिति च हेतुना। दृष्टपरिपक्वतण्डुलवददृष्टतण्डुलानां पाकसाधनवत्। तदसाधनत्वन्यायश्चेति तस्य शेषवतोनुमानस्यासाध (न) त्वन्यायश्च। यस्माददर्शनमात्रेण व्यति· रेकः प्रदर्श्यत इत्यादिना पूर्वमेवोक्तः। ननु च (1) "आप्तवादाविसम्वादसामान्यादनुमानता" (प्र० वा० ११२१८) इत्यादिना आचार्य दि ग्ना गे नाप्येकदेशाविसम्वादनमागमलक्षणमुक्तमेवेति (1) आह। उक्तं चेदमित्यादि। उक्तं चेदम् (1) “एकदेशाविसम्वादिरूपमागमलक्षणम् (1)" अस्माभिर्नायं पुरुषो नाश्रित्यागमप्रामाण्यमासितुं समर्थ" इत्यत्रान्तरे। 214b .. तत्रैकदेशाविसंवादनमागमलक्षणं नात्यन्तप्रसिद्धैकविषयसत्यताश्रयमपि तु तत्त्वागमलक्षणं योऽग्दिर्शनेन प्रमाणतः शक्यपरिच्छेदः। अशेषो विषयस्तस्य सर्वस्य शक्यविचारस्य विषयस्य (1) शक्यो विचारोस्येति विग्रहः। यथास्वं प्रमाणेन विधिप्रतिषेधस्वीकृत सिद्धिवत् (?) विशुद्धा शास्त्रे प्रत्यक्षविषयत्वेनाभिमतानां प्रत्यक्षत्वं । यथा बौद्ध सिद्धान्ते बुद्यादीनां। तथा वस्तुवलायातानुमानविषयाभिमतानां वस्तुबलानुमानविषयत्वं । यथा दुःखसत्यादीनां । आगमापेक्षानुमानविषयाभिमतानां च तथाभावः। त्रिविधस्य विषयस्य यथास्वं प्रमाणेन विधिसिद्धिः। प्रत्यक्षादिप्रमाणा विषय.....] ता नाम प्रत्यक्षादित्वं यथास्वं प्रमाणेन प्रतिषेधसिद्धिः। एवं विधिप्रतिषेधसिद्धौ सत्याम्परिशिष्टेष्वत्यन्तपरोक्षेष्वर्थेषु शब्दानां नान्तरतीयकताभावे सम्बन्धाभावे सत्यपि वरमगत्या संशयितस्य पुरुषस्य प्रवृत्तिस्तत्रेति सर्वस्मिन् वस्तुन्यदृष्टव्यभिचार आगमे कदाचिदविसम्वादसम्भवात्। नन्वन्यत्रेति (1) यत्रागमे यथोक्तविषयश[....... त] प्रत्यक्षादिविषयेपि

Loading...

Page Navigation
1 ... 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642