Book Title: Praman Varttikam
Author(s): Rahul Sankrutyayan
Publisher: Kitab Mahal

View full book text
Previous | Next

Page 613
________________ च. प्राप्त-चिन्ता ५६५ पौरुषेयाणामर्थगतावुपायः। अपौरुषेयस्तु शब्दो नैवं करोति (1) न चास्य कश्चित् क्वचित् सम्बन्धनियमं ज्ञातुमीश इत्यप्रतिपत्तिरेव तदर्थस्य। अपि च (1) वेदस्तद्वयाख्यानं वा पुरुषेण पुरुषायोपदिश्यमानमनष्टसम्प्रदायमेवानुवर्तत इत्यत्रापि समयः स (?श) रणं। आगमभ्रंशकारिणामाहोपुरुषिकया तद्दर्शनविद्वेषेण वा तत्प्रतिपन्नखलीकरणाय धूर्तव्यसनेन अन्यतो वा कुतश्चित् कारणादन्यथारचनासम्भवात्। अपि चात्र भवान् स्वमेव मुखवणं स्ववादानुरागान्नूनं विस्मृतवान् । “पुरुषो रागादिभिरुपप्लुतोऽनृतमपि ब्रूयादिति नास्य वचनं प्रमाणमि"ति। तदिहापि किन्न प्रत्यवेक्ष्यते संभवति न वेति। स एवोपदिस (? श)न्नुपप्लवात् वेदं वेदार्थ स्वयं समितानां संकेतितानां शब्दानामर्थं शृङ्गग्राहिकयापीत्यस्य शब्दस्यायमर्थ इत्यनेन तावदबुधमज्ञं पुरुषं बोधयेदित्यस्ति पौरुषेयाणां शब्दानामर्थगतावर्थज्ञाने उपायो नापौरुषेयाणां। तथा ह्यपौरुषेयस्तु शब्दो नैवं करोति यथायं ममार्थो रागादिमता ग्राह्य इति। न चास्यापौरुषेयस्य शब्दस्य कश्चि ज्जै मिन्यादी रागादिमान् क्वचिदतीन्द्रियेर्थे सम्बन्धनियमं ज्ञातुमीशः शक्त इति । अप्रतिपत्तिरेव तदर्थस्य वेदार्थस्य । अपि च (1) भवतु नामापौरुषेयो वेदस्तद्वयाख्यानञ्च तथापि रागादिमता पुरुषेण पुरुषायोपदिश्यमानमनष्टसंप्रदायमेवाद्यत्वेप्यनुवर्तत इति (अत्रापि) प्रमाणाभावात् समयः शपथादिः शरणं। आगमभ्रंशकारिणामित्यादिना संप्रदायविच्छेदेन रचनान्तरसम्भवमेव समर्थयते। आगमभ्रंशकारिणां पुंसामन्यथा। पूर्वरचनावपरीत्येन रचनादर्शनादिति सम्बन्धः। अन्यथा रचनायां कारणमाह। आहोपुरुषिकयेत्यादि। आहोपुरुषिकयेत्यहंमानित्वेन। यथा सां ख्य नाशकमा ध वे न सांख्यसिद्धान्तस्यान्यथा रचनं कृतं। तद्दर्शनविद्वेषेण वान्यथा रचनासम्भवात् ।। यथा म हा या न विद्विष्टानां महायानप्रतिरूपकसूत्रान्तररचनं । तत्प्रतिपन्नखलीकरणायेति। तस्मिन् दर्शने यः प्रतिपन्नः पुरुषस्तस्य खलीकारायान्यथारचनासम्भवः। तत्प्रतिपन्नखलीकार एव कथं। धर्तव्यसनेन। व्यसनमिदन्धर्तानां यत्परः खलीकर्तव्य इति। अन्यतो वा कुतश्चिल्लाभादिकात् । ____ अपि चात्र वेदार्थनिर्णये। भवान् वे द वा दी। स्ववादानुरागात्कारणात् । स्वमेव मुखवणं। मुखं वर्णयति शोभयतीति मुखवणः । स्वाभ्युपगमस्तं नूनम्बिस्मृतवान् । येन रागादिमलिनेभ्यः पुरुषेभ्यो वेदार्थनिर्णयः प्रार्थ्यते। पुरुष इत्यादिना मुखवर्णमाचष्टे । यस्मात् पुरुषो रागादिभिरुपप्लुतो विपर्यस्तोऽनृतमपि ब्रूयादिति कृत्वा नास्य पुरुषस्य वच'नम्प्रमाणमिति (1) 210a

Loading...

Page Navigation
1 ... 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642