Book Title: Praman Varttikam
Author(s): Rahul Sankrutyayan
Publisher: Kitab Mahal

View full book text
Previous | Next

Page 611
________________ च. प्राप्त-चिन्ता ५६३ दर्शनात् तत्प्रवृत्तेः संवादेन व्याप्त्या सिद्धेश्च । इदमागमलक्षणमगत्या दृष्टमिति नातो निश्चयः। तत् न प्रमाणमागम इत्युक्तं (प्राक्)। अपौरुषेयाणां शब्दानामर्थज्ञानं न संप्रदायात, न यक्तेः, नापि लोकात । न हि तत्राप्रतिपत्तिः न्याय्या। स चेत् प्रसिद्धो लोकवादः प्रतीतिहेतुः । प्रसिद्धो लोकवादश्वेत् , तत्प्रतीतिहेतुः ।) तत्र कोतीन्द्रियार्थदृक् । अनेकार्थेषु शब्देषु येनार्थोयं विवेचितः ॥३२२॥ न ह्ययं लोकव्यवहारोऽपौरुषेयाच्छब्दार्थसम्बन्धात्। किन्तर्हि (1) समयात् 36a दिविषये प्रमाणसम्वादादस्खलितो दृष्ट इति कृत्वा सर्वन्तदुपदिष्टमयुक्तिगम्यमपि तथा भवति । किं कारणं (1) तत्प्रवृत्तेरित्यादि । तस्य पुरुषातिशयस्य वचनप्रवृ- . तेरविसम्वादेन व्याप्त्या सिद्धेविपर्यये बाधकप्रमाणाभावात्। नन भवतापि (1) "प्रत्यक्षेणानुमानेन द्विविधेनाप्यबाधनम्” (११।२१८) इत्यादिनैकदेशाविसम्वादनमागमलक्षणमिष्टमिति (1) अत आह। अगत्या चेत्यादि। प्रमाणगम्यार्थाविसम्बादेनात्यन्तपरोक्षेप्यविसम्वादिवचनमितीदमागमलक्षणमगत्येष्टमागमात् प्रवृत्तौ वरमेवं प्रवृत्त इति । नातो यथोक्तादागमादतीन्द्रियार्थनिश्चयस्तस्याप्रामाण्यात् । तदिति तस्मान्न प्रमाणमागम इत्युक्तं प्राक् । तदेवमपौरुषेयाणां शब्दानामर्थज्ञानन्नाचार्यसंप्रदायात् । दैशिकस्याभावात्। न युक्तस्सकाशादत्यन्तपरोक्षेर्थे प्रमाणाप्रवृत्तेः। नापि लोकादर्थप्रतीतिर्लोकप्रत्यायनाय प्रयोगाभावेन लोकसंकेतानुसरणायोगादिति। तत्रापौरुषेयेषु शब्देष्वर्थानामप्रतिपत्तिरेव न्याय्या। तत्रापि वैदिके शब्दे प्रसिद्धो लोकवादो यथा ग्न्यादि शब्दाद् दाहपाकादिसमथैर्थे प्रवर्तन्त इत्यादि। यो लोकव्यवहारस्स चेद् वेदार्थप्रतिपत्तिहेतुः। उत्तरमाह। तत्रेत्यादि। तत्र लोकेऽविद्यात्वे कः पुरुषोतीन्द्रियार्थदृक् । येनातीन्द्रियार्थदृशाऽनेकार्थेषु शब्देष्वेकार्थप्रतिनियमाभावादाशंक्यमानार्थविशेषेषु वैदिकेष्वर्थोयमतीन्द्रियो विवेचितो विभक्तोयमेवास्यार्थो नायमिति (1) नैव तादृशः कश्चिदस्ति। न हीत्यादिना व्याचष्टे। न ह्ययं लोकव्यवहारोपौरुषेयादकृतकाच्छ । 1 Restored. ७५

Loading...

Page Navigation
1 ... 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642