Book Title: Praman Varttikam
Author(s): Rahul Sankrutyayan
Publisher: Kitab Mahal

View full book text
Previous | Next

Page 612
________________ ५६४ प्रमाणवात्तिकस्ववृत्तिटीका (१।३२२) स्वशास्त्रकारसमयात् पाणिनी यादिव्यवहारवत्। उपदेशापेक्षणात्। न ह्यपौरुषेये तस्मिन्नुपदेशो युक्तस्तस्य केनचिदज्ञानात्। अतीन्द्रियत्वात् । ऐन्द्रियत्वे स्वयं प्रतिपत्तिप्रसंगाद् रूपादिवत्। उपदेशे च पुरुषाणां स्वतन्त्र (1) णां यथातत्त्वमुपदेशेनाविसंवादस्यासिद्धरनाश्वासः।। वेदवत् तद्व्याख्यानमपौरुषेयं संप्रदायाविच्छेदागतं ततोर्थसिद्धिरिति चेत् । न (1) तस्यापि शब्दात्मकत्वे तुल्यः पर्यनुयोगः (1) कथमस्याओं विदित इति । पुरुषो हि स्वयं समितानां शब्दानामर्थ शृंगग्राहिकयापि तावदबुधं बोधयेवित्यस्ति ब्दार्थसम्बन्धाद् भवति (1) किन्तहि (1) अभिप्रायकथनलक्षणात् समयात् । किमिव (1) स्वशास्त्रकारेत्यादि । स्वशास्त्रकाराणां पा णि नि प्रभृतीनां समयात् संकेतात् । तत्समयानुसारिणां पा णि नी या दीनां वृद्धिगुणसंज्ञादिव्यवहारवत् किं कारणम् (1) उपदेशापेक्षणात् । ___यदि हि लौकिकोपि व्यवहारो निसर्गसिद्धः स्यात् तदा परोपदेशन्नापेक्षेत। न च यथा सामयिकात् सम्बन्धादुपदेशापेक्षादर्थप्रतीतिस्तथाऽपौरुषेयादपि सम्बन्धादुपदेशापेक्षादेव वेदार्थप्रतीतिः (1) यतो न हपौरुषेये तस्मिन् वैदिके शब्दार्थसम्बन्धे परोपदेशो युक्तः। किङ्कारणं (।) तस्य वेदार्थस्य केनचिदपि पुरुषेणाज्ञानादज्ञानां च वेदार्थस्यातीन्द्रियत्वात् । तदुक्तं। "श्रेयः साधनता ह्येषान्नित्यम्वेदात् प्रतीयते।। ताद्रूप्येण च धर्मत्वन्तस्मान्नेन्द्रियगोचरः। (श्लो० चो० १४) श्रेयो हि पुरुषप्रीतिः सा द्रव्यगुणकर्मभिः।। चोदनालक्षणैः साध्या तस्मात्तेष्वेव धर्मते''ति। (, १६१ ) ऐन्द्रियकत्वे तु वेदार्थस्याभ्युपगम्यमाने स्वयमुपदेशमन्तरेण वेदार्थस्य प्रतीति- ' 209b प्रसङ्गात् । रूपादिवत् । यथा रूपादीनामन्द्रियकत्वादुपदेशमन्तरेण प्रतीतिस्तद्वत् ।' अथातीन्द्रियेपि वेदार्थे निश्चयार्थमुपदेशोऽभ्युपगम्यते। तदोपदेशे च । वेदार्थोपदेष्टणां पुंसां स्वतन्त्राणामिति रागाद्यभिभवेन सम्यग्ज्ञानाभावाद् यथेच्छं प्रवृत्तानां यथातत्त्वमुपदेशेनाविसम्वादस्यासिद्धरनाश्वासो न निश्चयो वेदार्थे। न ह्यज्ञा यथातत्त्वमुपदेष्टुं समर्था इति। न पुरुषाः स्वेच्छयोपदिशन्ति । किन्तु वेदवद् वेदव्याख्यानमप्यपौरुषेयमुपदेशपरम्परायातलक्षणात् संप्रदायाविच्छेदादागतं। ततो यथोक्ताद् वेदव्याख्यानाद् वेदार्थसिद्धिरिति चेद् । (1) उत्तरमाह। तस्यापीत्यादि। तस्यापि वेदव्याख्यानस्य शब्दात्मकत्वे शब्दस्वभावत्वे वेदेन तुल्यः पर्यनुयोगः। कथमस्यापौरुषेयस्य वेदव्याख्यानस्यार्थो विदित इति कुतोस्माद् वेदार्थनिश्चयः । पौरुषेये त्वागमे नायन्दोषो यतः पुरुषो हि

Loading...

Page Navigation
1 ... 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642