Book Title: Praman Varttikam
Author(s): Rahul Sankrutyayan
Publisher: Kitab Mahal

View full book text
Previous | Next

Page 605
________________ च. आप्त-चिन्ता ५८७ स्यादेतद् । न वयं पुरुषप्रामाण्याः कस्यचिद् वेदव्याख्यानेऽनमभिनिविष्टाः। किन्तहि । अन्यप्रमाणसंवादात् । बहुष्वपि व्याख्यातृषु यः प्रमाणं प्रत्यक्षादिकं संस्यन्दयति सोऽनुमन्यत इति। ___ तन्न। अदृष्टादिषु अतीन्द्रियेषु प्रमाणान्तरावृत्तेः। तदवृत्तेरेव हि तत्प्रतीत्यथं आगम उपयाच्यते। अन्यथा सत्यपि तस्मिन् यदि अर्थे प्रमाणान्तरस्यावृत्तिः अप्रतिपत्तेः। ततश्च केवलात् प्रतिपत्तेरसाधनमेवागमः स्यात्।। केवलादन्यतोऽपि अतीन्द्रियेषु अप्रतिपत्तिरिति चेत् ।। कथमतीन्द्रियश्च नाम प्रत्यक्षादिविषयश्च । ते पुनः स्वविषयेऽपि आगममपेक्ष्यैव साधकाश्चेत्, अनागमोग्न्यादिप्रत्ययो धूमादेर्न स्यात् । न वै प्रागमे . स्यादेतदित्यादिना व्याचष्टे। न वयं पुरुषप्रामाण्याः कस्यचिज्जैमिन्यादेर्वेदव्याख्यानमभिनिविष्टाः (1) किन्तर्हि (1) प्रमाणसम्बादाद् व्याख्यानमभिनिविष्टाः। एतदेव व्यनक्ति। बहुष्वपि वेदव्याख्यातषु मध्ये। यो वेदस्य व्याख्याता। यथा व्याख्यातेर्थे प्रमाणं प्रत्यक्षादिकं संस्यन्दयति योजयति स तादृशो व्याख्यातानुमन्यतेङ्गीक्रियते नान्य इति।। तन्नेत्यादिना प्रतिषेधति। धर्माधर्मावदृष्टं। आदिशब्दात् स्वर्गादिसाधकत्वेष्वतीन्द्रियेषु प्रत्यक्षादिप्रमाणान्तरावृत्तेः। न वेदार्थे कस्यचित् प्रमाणसम्वादि वचनं। यस्मात् तदसम्भवादेव हि। अत्यन्तपरोक्षे प्रत्यक्षादिप्रमाणस्यासम्भवादेव हि। तत्प्रतीत्यर्थन्तस्यातीन्द्रियस्य प्रतीत्यर्थमागमः उपयाच्यते प्रार्थ्यते। अन्यथेति यद्यागमगम्येप्यर्थे प्रमाणान्तरसम्वादादेवार्थनिश्चयस्तदा सत्यपि तस्मिन्नागमे तद्गम्यर्थे यदि प्रमाणान्तरस्यावृत्तिः स्यात् (।) तदा प्रमाणान्तरावृत्तावागमात् केवलादप्रतिपत्तेः। ततश्चेति प्रमाणान्तरात्केवलादित्यागमरहितार्थप्रतिपत्तेरसाधनमेवागमः स्यात्। प्रमाणान्तरभावाभावाभ्यामेवार्थप्रतिपत्तेर्भावाभावात् । केवलादागमनिरपेक्षादन्यतोपि प्रत्यक्षादेः प्रमाणादतीन्द्रियेर्थे प्रतिपत्तिः किन्त्वागमसहितात् प्रत्यक्षादेरतीन्द्रियार्थप्रतिपत्तिरिति चेत्। कथमिति सि द्धा न्त वा दी। कथमतीन्द्रियश्च नाम स्वर्गादिसिद्धयुपायः प्रत्यक्षादिविषयश्च विरोधात। ___स्यान्मतं (1) नैवात्यन्तपरोक्षेर्थे प्रत्यक्षादीनां साधकत्वं किन्तु ते पुनः प्रत्यक्षादयः स्वविषयेप्यात्मीये विषयेप्यागममपेक्ष्यैव साधकाश्चेत् तथा चागमस्यैव प्रामाण्य मिति परो मन्यते । अनागमेत्यादि सिद्धान्त वा दी। नास्मिन्नागमीस्तीत्यनागमोग्न्यादिप्रत्ययो धूमादेलिङ्गान स्यात्।

Loading...

Page Navigation
1 ... 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642