Book Title: Praman Varttikam
Author(s): Rahul Sankrutyayan
Publisher: Kitab Mahal

View full book text
Previous | Next

Page 607
________________ च. आप्त-चिन्ता ५८६ प्रमाणेनाबाधनात् प्रतिपत्तेः। तद्भावेऽपि अन्यत्रान्यप्रमाणसंवादिनि अनिष्टत्वात्। अपि च । यद्यत्यन्तपरोक्षेर्थेऽनागमज्ञानसम्भवः । भतीन्द्रियार्थविकश्चिदस्तीत्यभिमतं भवेत् ॥३१९॥ यदि पुरुषस्य परोक्षेऽर्थे पागमानपेक्षं ज्ञानयाथातथ्यं इष्यते, तदा पुरुषाः संति अतीन्द्रियार्थदृश इतीष्टं स्यात् । प्रत्यक्षपूर्वकाणां प्रमाणस्यातद्दर्शनेऽसम्भवात् प्रत्यक्षावृत्तः। तेषु प्रमाणान्तरासम्भवेऽतदालम्बन प्रतीतय आगमः प्रमाणम् । प्रमाणान्तरस्य वृत्तिः प्रत्यक्षमन्वाकर्षतीति पुरुषातिशयोऽनिवार्यः स्यात्। तस्मानास्त्यतीन्द्रिये प्रमाणान्तर वृत्तिः। अत एव प्रागमस्यार्थविशेषे वृत्त्यपरिक्षानात् । अयं जैमिनिरन्यो वा। एतदुक्तम्भवति । प्रमाणसम्वादित्वेनागमार्थप्रतिपत्तेरिष्टत्वादित्यर्थः। तद. भावेप्यपौरुषेयत्वभावेपि तुल्येन्यत्राप्रमाणसम्वादिन्यर्थे प्रतिपत्तेरनिष्ठत्वात् प्रमाणसम्वादो वचनानामागमलक्षणं स्यात् । ' यदि चात्यन्तपरोक्षेर्थेऽनागमज्ञानसम्भव आगमनिरपेक्षस्य ज्ञानस्य सम्भवः । तदातीन्द्रियार्थक्त् िकश्चिदस्तीति स्वमभिमतम्भवेत्। ___यदि पुरुषस्य जै मि न्या देर्वेदार्थमाख्यातुः परोक्षेर्थे स्वर्गादिसाधनोपाये आगमानपेक्षं ज्ञानयाथातथ्यं ज्ञानस्यावैपरीत्यमिष्यते। तदा जै मि न्यादिवदन्यपि पुरुषाः संत्यतीन्द्रियार्थदृश इतीष्टं स्यात् । ___ स्यादेतत् (1) नातीन्द्रियमर्थं प्रत्यक्षतो जानात्यपि त्वनुमानेन ज्ञात्वोपदिशतीति (1) तन्न। यतः (1) प्रत्यक्षपूर्वकाणामनुमानादीनामसम्भवात्। कदाऽतद्दर्शने तेन प्रत्यक्षेणातीन्द्रियस्यादर्शने (1) प्रत्यक्षेत्यादिनैतदेव स्पष्टयति। तेष्वतीन्द्रियेष्वर्थेषु प्रत्यक्षावृत्तेः कारणात् प्रत्यक्षपूर्वकाणां प्रमाणान्तराणामसम्भवात्।। . अतदालम्बनं प्रतीयत इति तस्य प्रत्यक्षादेरालम्बनम्विषयः। न तदालम्बनमतदालम्बनं प्रत्यक्षाद्यविषयन्तस्य प्रतीयते निश्चयार्थमाग मोन्विष्यत इत्यध्याहारः । प्रमाणान्तरस्य त्वनुमानादेरतीन्द्रियेर्थे वृत्तिः प्रत्यक्षमतीन्द्रियविषयमन्वाकर्षति साधयति । प्रत्यक्षपूर्वकत्वादनुमानादेः । इति हेतोः पुरुषातिशयोतीन्द्रियाणामर्थानां द्रष्टा मी मां स कै रनिवार्यः स्यात् । निवारितश्च । तस्मान्नास्त्यतीन्द्रियर्थे प्रमाणान्तरवृत्तिः। अत एवेति प्रमाणान्तरावृत्तेरेवागमस्य वेदस्यातीन्द्रिये स्वर्गादिसाधनत्व- 208a लक्षणेर्थविशेषे या वृत्तिस्तस्या अनिश्चयात् । अयं जैमिनि रन्यो वा श ब र स्वा 1 Bar-la-? Khyad-par-la.

Loading...

Page Navigation
1 ... 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642