Book Title: Praman Varttikam
Author(s): Rahul Sankrutyayan
Publisher: Kitab Mahal

View full book text
Previous | Next

Page 600
________________ ५८२ प्रमाणवात्तिकस्ववृत्तिटीका (१।३१३) तादृशः प्रभाववानेव, तदन्यैरसाधारण शक्तित्वात् पुरुषातिशय एव समथितः स्यात्। कृतकाः पौरुषेयाश्च मंत्रा वाच्याः फलेप्सुना। ___ न हि अकृतकानां प्रयोगः सम्भवति, न चाप्रयुक्तेभ्यः फलम् । एवं, पुरुषाधिष्ठानमन्तरेण असम्भवत्फलानां फलदर्शनात्, प्रयोगात् फलमिच्छता मन्त्रा कृतकाः पौरुषेयाश्च वाच्याः। कृतसमयकाव्यवत् । अशक्तिसाधनं पुंसामनेनैव निराकृतम् ॥३१३॥ प्रतिपादिता हि परुषकृता मन्त्रास्तदधिष्ठानाच्च फलदाः। तद, अस्ति अपि च (1) केचित् तन्त्रज्ञा मन्त्रं कुर्वन्तीत्यभिदधता पुरुषातिशय एव समथितः स्यात्। यस्मात् सोपि तादृशस्तन्त्रज्ञो मन्त्रस्य कर्ता प्रभाववानेव । तदन्यैरतन्त्रज्ञैः पुरुषैरसाधारणशक्तित्वादिति कृत्वा । यतश्च पुरुषाधिष्ठितानामेव मन्त्राणां फलं। तस्मात् कृतकाः पौरुषेयाश्च फलदा इत्येवम्मन्त्रा वाच्याः फलेप्सुना। मन्त्राद् फलमिच्छता न नित्या मन्त्राः किन्तु कृतकाः कृतकत्वेपि न फलदाने पुरुषनिरपेक्षा इत्यर्थद्वयमादर्शयितुं कृतकाः पौरुषेयाश्चेति द्वयोपादानं । न हीत्यादिना व्याचष्टे। न हि नित्यानाम्वैदिकानां मन्त्राणां प्रयोग उच्चारणं सम्भवत्यनाधेयातिशयत्वात्। न चाप्रयुक्तेभ्यो मन्त्रेभ्यः फलमिति कृत्वा प्रयोगात फलमिच्छता कृतका मन्त्रा वाच्याः। पौरुषेयाश्च । पुरुषाधिष्ठिताश्च फलदा वाच्याः। किं कारणं (1) परुषाधिष्ठानमन्तरेण विनान्यतो भावशक्त्यादेरसम्भवत्फलानाम्मन्त्राणां पुरुषाधिष्ठानादेव फलदर्शनात् । यथा च न भावशक्त्या मन्त्रेभ्यः फलोत्पत्तिस्तथा प्रतिपादितं (1) ___ "सर्वस्य साधनन्ते स्युर्भावशक्तिर्यदीदृशी"त्यादिना (११२६७)। 205b निदर्शनं चाह। यो मदीयं काव्याद्येवं पठिष्यति' तस्य मयायमर्थः सम्पादनीय इत्येवंकृतः समयो यस्मिन् काव्यादौ आदिशब्दाच्छिल्पस्थानादौ। स कृतसमयः काव्यादिः तस्मिन्निव तद्वत्। यथा तत्र काव्यादिपाठकानां पुरुषाधिष्ठानात् फलन्तद्वन्मन्त्रेष्वपीत्यर्थः । पुंसामतीन्द्रियार्थदर्शनं प्रति शक्तिर्नास्तीत्येवमशक्तिसाधनमसामर्थ्यस्य साधनं यन्नाम किञ्चित् मी मां स कै रुच्यते तत्सर्वमनेनैव मन्त्रकारिणां ज्ञानप्रभावातिशयसाधनेन निराकृतं ।। प्रतिपादिता हीत्यादिना व्याचष्टे। प्रतिपादिता हि पुरुषकृता मन्त्रास्तदधिष्ठानाच्च फलदा मन्त्रा इत्येतदपि प्रतिपादितं । ___ न च सर्वे पुरुषा मन्त्रान् कर्तुमधिष्ठातुं वा शक्ताः । तदिति तस्मादस्ति कश्चिदतिशयवान् पुरुषो मन्त्रस्य कर्तेति। तस्यातिशयवतः पंसः प्रतिक्षेपसाधनान्यपि

Loading...

Page Navigation
1 ... 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642