Book Title: Praman Varttikam
Author(s): Rahul Sankrutyayan
Publisher: Kitab Mahal
View full book text
________________
525a
प्रमाणवार्तिकस्ववृत्तिटीका ( १।३११ )
न । धर्मविरुद्धानामपि क्रौर्यस्तेयद्वीन्द्रियसमापत्तिहीनकर्मबहुलानां डाकिनीभगिनीतन्त्रादिषु दर्शनात् । तैरपि मन्त्रसिद्धिविशेषात् । न च एवं विधो धर्मस्वभाव इति यथावसरं निवेदयिष्यामः ।
५७८
मैत्रीशोचधर्मप्रदानां तन्निमित्तमेव कस्याश्चिदसिद्धेः, विपर्ययेण च सिद्धेः । न च एकरूपाद्धि कर्मणः तद्विरोधी धर्मोऽधर्मश्च युक्तः । कथमिदानीं अध
नेत्यादिना प्रतिषेधति । न धर्मापेक्षात् मन्त्रात् फलसिद्धिः । किं कारणं ( 1 ) धर्मविरुद्धानमपि मन्त्रसिद्धिहेतूनां व्रतानां डा कि नी भगिनी तन्त्रादिषु दर्शनात्। डा कि नी तन्त्रे । चतुर्भगिनीतन्त्रे । आदिशब्दात् । चौर्यहेतुषु कम्बुकिनी तन्त्रादिषु दर्शनात् । कानि पुनस्तानि धर्मविरुद्धानीत्याह । क्रौर्येत्यादि ।
यं प्राणिबधः । स्तेयं चौर्यं । द्वि (? द्वीं) द्रियसमापत्तिमैथुनं । हीनकर्म मार्जाराशुचिधूमप्रदानादि । आदिशब्दादन्यस्यापि धर्म विरुद्धस्य ग्रहणं । तानि क्रौर्या - दीनि बहुलानि भूयांसि येषां ब्रतानान्तानि तथोक्तानि । तैश्च तथोक्तैर्व्रतैर्मन्त्रसिद्धिविशेषात् । तथा हि (1) डा कि नी तन्त्रे समयव्यवस्था । यदा प्राणिनं हत्वा खादति तदा मन्त्रसिद्धिमासादयति । तथा कम्बु कि नी तन्त्रे स्तेयाचर2042 णात् सिद्धिरुक्ता । तथा मैथुनाचरणात् सिद्धिप्रदा काचिद्देवतेति भगिनी' तन्त्रा
न्तरे क्वचित् समयः ।
क्रौर्याद्येव धर्मो भविष्यतीति चेद् ( 1 )
आह । न चेत्यादि । एवम्विधो क्रौर्यादिलक्षणो धर्मस्वभाव इति यथावसरं पश्चान्निवेदयिष्यामः । एवन्तावदधर्मादपि सिद्धिर्दृष्टा ।
धर्मादपि सिद्धिर्न दृष्टेत्याह । मैत्रीत्यादि । सत्वानां हितसुखचिन्तनमैत्री । शौचं द्विविधं । बाह्यमान्तरञ्च । बाह्यं स्नानादि । आन्तरं स्तेयादिनिवृत्तिः । दानादिना परानुग्रहो धर्मः । मैत्रीशौचधर्माः परे प्रदानानि येषान्ते तथोक्ताः । तथाभूतानां पुरुषाणां । तन्निमित्तमेव मैत्र्यादिकमेव निमित्तं कृत्वा कस्याश्चित् सिद्धेरिति मैत्रीविपर्ययेण या लभ्या तस्या असिद्धेः । विपर्ययेण च द्वेषादिना पुनः सिद्धेः । न धर्मोपचयापेक्षात् मन्त्रात् फलसिद्धिरिति । द्वेषादिसमुत्थितोपि क्रौर्यादिर्मन्त्रविधानेनानुष्ठितस्सन् धर्म एवेति ( 1 )
अत आह । न चेत्यादि । एकरूपाद्धि सादिलक्षणात् कर्मणः सकाशात् सतद्विरोष्यधर्मविरोधी धर्मो युक्तः । अधर्मश्चेति मन्त्रविधानादन्यत्र तत एव हिंसादेः सकाशादधर्मश्च न युक्तः । न ह्यधर्महेतोर्धर्मो भवति विरोधात् । तथा हि (1) येनैव द्वेषाद्याशयेन मन्त्रविधानादन्यत्र हिंसादिकुर्वतोऽधर्मो भवति । तेनैवाशयेन मन्त्रविधानानुष्ठानेपि हिंसादिकं क्रियत इति कथन्तस्य धर्माङ्गत्वमिति ।

Page Navigation
1 ... 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642