Book Title: Praman Varttikam
Author(s): Rahul Sankrutyayan
Publisher: Kitab Mahal
View full book text
________________
(२) कुमारिलमत-निरासः
अन्यस्य व्रतचर्याद्यपेक्षणाच्च । एकस्मादपि कर्मणः कयोश्चिदर्थानर्थयोर्दर्शनात । वहतामपि मन्त्राणां कस्यचिद् विसंवादात्। न ह्ययं प्रकारः स्वभावे युक्तः, स्वभावस्य सर्वत्राविशेषात् । पुरुषस्तु स्वेच्छावृत्तिः सत्त्वसभागतादिवशात् सेवाविशेषाद् वा कंचिद् अनुगृह्णाति नापरमिति युक्तम् ।
वतचर्या भ्रंशादिना धर्माधर्मोपचये धर्माधर्मात्मनोः प्रकृत्या सिद्धयसिद्धी चेत्।
पुरुषसमयात्। किं कारणं (1) कस्यचिन्मन्त्रानुष्ठायिनः पुरुषस्यपशुमन्त्रसिद्धः अन्यस्य तत्तुल्यमन्त्रक्रियानुष्ठायिनः चिरात् सिद्धेः। स्वतो हि फलदानेऽयं कालभेदो न युज्यते मन्त्रस्य केनचिदुत्कर्षानुत्कर्षाकरणात्। अन्यस्य पुरुषस्य मन्त्रात् फलनिष्पत्तौ व्रतचर्याद्यपेक्षणान्न स्वभावतो मन्त्रः कारकः । व्रतं मन्त्रकल्पविहितो नियमस्तस्य चरणमनष्ठानं। अपिशब्दाद्धोमादिपरिग्रहः। स्वभावतो हि 203b फलदाने। किं व्रतचर्याद्यनष्ठानेनापेक्षितेन। ततोतिशयानत्पत्तेः। तथैकस्मा दपि मन्त्रविषयाज्जपहोमादिकर्मणः सकाशात् कयोश्चित पुरुषयोस्तुल्यं विधिमनुतिष्ठतोरप्येकस्यार्थदर्शनादन्यस्यानर्थदर्शनान्न स्वभावतः फलं। स्वभावतस्तु फलदाने तुल्योर्थयोगः स्यात्। वहतामपीति (1) विषाद्यप'नयनं कुर्वतामपि मन्त्राणां पुनः कालान्तरे तेनैव पुरुषेण प्रयुक्तानां कस्यचित् कार्यस्य विसम्वादादकरणात्। न ह्ययं प्रकारो वस्तुस्वभावे युक्तः (1) किं कारणं (1) स्वभावस्य सर्वत्र पुरुषादौ तुल्यत्वात्। यो हि यस्य स्वभावो न स कञ्चिदपेक्ष्य स्वभावो भवति । यदा तु पुरुषकृतात् समयात् फलमिष्यते तदायमदोषः। तथा हि (1) पुरुषस्तु मन्त्रसमयस्य कर्ता। स्वेच्छावृत्तिरिति कृत्वा कंचित् पुरुषमनुगृह्णाति नापरमिति युक्तं। केन कारणेन। सत्त्वसभागताविशेषात्। मन्त्रक्रियानुष्ठातुः सत्त्वस्य मन्त्रप्रणेत्रा सह सभागता तुल्यशीलाचारादिना। आदिशब्दादुपप्रदानादिपरिग्रहः। तद्वशात्तदनुरागात्। सेवाविशेषाद्वा। जपहोमादिना देवताराधनं सेवाविशेषस्त स्माद्वा। कञ्चिदनुगृह्णाति पुरुषं। नापरं सत्त्वसभागतादिरहितं।
व्रतेत्यादिना परमाशंकते। नियमस्यानुष्ठानं व्रतचर्या । व्रतचर्या च व्रतचर्याभ्रङशश्चेति विरूपैकशेषः। आदिशब्दः प्रत्येकमभिसम्बध्यते। व्रतचर्यादिना व्रतचर्याभ्रंशादिना चेत्यर्थः। व्रतचर्यादिना धर्मोपचये सति सिद्धिरिति सम्बन्धः। तथा प्रकृत्या स्वभावेन धर्मात्मनो वा पुंसः सिद्धिः। व्रतचर्याभ्रङ्शादिना त्वधर्मोपचये सति । अधर्मात्मनो वा प्राकृत्या पुरुषस्यासिद्धिरिति वाक्यार्थो योज्यः। स्वभावतोपि मन्त्रात् फलनिष्पत्तौ यथोक्तेन प्रकारेण सिद्धयसिद्धिभेदो भविष्यतीति परो मन्यते।
७३
Page Navigation
1 ... 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642