Book Title: Praman Varttikam
Author(s): Rahul Sankrutyayan
Publisher: Kitab Mahal

View full book text
Previous | Next

Page 580
________________ ५६२ प्रमाणवात्तिकस्ववृत्तिटीका (१॥३०१) कारे सति अन्यत्रापि कयाचित् प्रत्यासत्त्या भवति । सापि पारम्पर्येण न स्यात् । तस्माद् वक्तृश्रोत्रोर्व्यक्तिहेतुत्वे विशेषाभावात् तुल्यः फलेन सम्बन्धः स्यात्। अपि च । अनभिव्यक्तशब्दानां करणानां प्रयोजनम् । मनोजपो वा व्यर्थः स्याच्छब्दो हि श्रोत्रगोचरः ॥३०१॥ श्रोत्रग्रहणलक्षणस्य शब्दस्यातिक्रमेऽतिप्रसंगात् । नन्वेवमपि सामान्य प्रसंगः। न ब्रमः शब्द एवेति। शब्दस्त्ववश्यं तल्लक्षणंः। तस्य लक्षणान्तरा भावात। तत्र यदि शब्दात्मनां मन्त्राणामभिव्यक्तिहेतः प्रयोक्ता जापी मनोजापी संस्कारवशेन पुनरुन्मत्तावस्थायामन्यत्राप्यवक्तर्यपि। कयाचित् प्रत्यासत्त्या केनचित्सादृश्येन भवति। सापि भ्रान्तिनित्येषु मन्त्रेष्वत्यन्तं पारम्पर्येणाप्यनुपकारे न स्यात्। तस्मादित्यादिना प्रकृतमुपसंहरति । यथोक्तविधिना वक्तृश्रोत्रोर्व्यक्तिहेतुत्वे । शब्दज्ञानहेतुत्वे विशेषाभावात्तुल्यो मन्त्रफलेन सम्बन्धः स्यात् । नित्येषु व्यक्तिहेतुत्वमपि नैवास्ति (1) केवलमभ्युपगम्यैवमुच्यते। अपि चेत्यादिना दूषणान्तरमाह। अनभिव्यक्तः (न) श्रोत्रविषयन्नीतः शब्दो यैः करणैस्ताल्वादिभिस्तान्यनभिव्यक्तशब्दानि। तेषां करणानां प्रयोजनं व्यापारणं व्यर्थ स्यादिति लिङ्गविपरिणामेन सम्बन्धः। यत्रौष्ठादिप्रस्पन्दमात्रेण उपांशुजपः क्रियते। स व्यर्थः स्यादिति वाक्यार्थः। यत्रौष्ठादिप्रस्पन्दोपि नास्ति केवलं मनसा मन्त्रचिन्तनं स मनोजपः। वा शब्दः समुच्चये। मनोजपश्च व्यर्थः स्यात् । यस्माच्छब्दो हि श्रोत्रगोचरः श्रोत्रग्राह्य एव शब्दः (1) शब्दस्वभावश्च मन्त्रः । उपांशुमानसयोश्च जपयोः श्रोत्रग्रहणाभावादशब्दत्वम् (1) अशब्दत्वाच्चामन्त्रत्वं च जपन् कथं फलवान् स्यात्। गृह्यत इति ग्रहणं। श्री अग्राह्य इत्यर्थः। तदेव लक्षणं यस्य शब्दस्य स तथोक्तः। तदतिक्रमेतिप्रसंगात् । श्रोत्रग्राह्यं शब्दं मुक्त्वा मनोजपादेर्ज्ञानात्मकस्य शब्दत्व इष्यमाणे रसादीनामपि शब्दत्वं स्यात्। . नन्वेमपि श्रोत्रगोचरस्य शब्दस्वभावत्वे शब्दत्वसामान्य शब्दस्वभावताप्रसङ्गः। नेति सिद्धान्त वा दी। न ब्रूमः श्रोत्रगोचरः शब्द एवेति। शब्दस्त्ववश्यन्तल्लक्षणः श्रोत्रग्रहणलक्षण इति ब्रूमः। कस्मात्। तस्य शब्दस्य श्रोत्रग्राह्यत्व

Loading...

Page Navigation
1 ... 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642