________________
५६२ प्रमाणवात्तिकस्ववृत्तिटीका (१॥३०१) कारे सति अन्यत्रापि कयाचित् प्रत्यासत्त्या भवति । सापि पारम्पर्येण न स्यात् ।
तस्माद् वक्तृश्रोत्रोर्व्यक्तिहेतुत्वे विशेषाभावात् तुल्यः फलेन सम्बन्धः स्यात्। अपि च ।
अनभिव्यक्तशब्दानां करणानां प्रयोजनम् ।
मनोजपो वा व्यर्थः स्याच्छब्दो हि श्रोत्रगोचरः ॥३०१॥ श्रोत्रग्रहणलक्षणस्य शब्दस्यातिक्रमेऽतिप्रसंगात् । नन्वेवमपि सामान्य प्रसंगः।
न ब्रमः शब्द एवेति। शब्दस्त्ववश्यं तल्लक्षणंः। तस्य लक्षणान्तरा भावात। तत्र यदि शब्दात्मनां मन्त्राणामभिव्यक्तिहेतः प्रयोक्ता जापी मनोजापी
संस्कारवशेन पुनरुन्मत्तावस्थायामन्यत्राप्यवक्तर्यपि। कयाचित् प्रत्यासत्त्या केनचित्सादृश्येन भवति। सापि भ्रान्तिनित्येषु मन्त्रेष्वत्यन्तं पारम्पर्येणाप्यनुपकारे न स्यात्।
तस्मादित्यादिना प्रकृतमुपसंहरति । यथोक्तविधिना वक्तृश्रोत्रोर्व्यक्तिहेतुत्वे । शब्दज्ञानहेतुत्वे विशेषाभावात्तुल्यो मन्त्रफलेन सम्बन्धः स्यात् । नित्येषु व्यक्तिहेतुत्वमपि नैवास्ति (1) केवलमभ्युपगम्यैवमुच्यते।
अपि चेत्यादिना दूषणान्तरमाह। अनभिव्यक्तः (न) श्रोत्रविषयन्नीतः शब्दो यैः करणैस्ताल्वादिभिस्तान्यनभिव्यक्तशब्दानि। तेषां करणानां प्रयोजनं व्यापारणं व्यर्थ स्यादिति लिङ्गविपरिणामेन सम्बन्धः। यत्रौष्ठादिप्रस्पन्दमात्रेण उपांशुजपः क्रियते। स व्यर्थः स्यादिति वाक्यार्थः। यत्रौष्ठादिप्रस्पन्दोपि नास्ति केवलं मनसा मन्त्रचिन्तनं स मनोजपः। वा शब्दः समुच्चये। मनोजपश्च व्यर्थः स्यात् । यस्माच्छब्दो हि श्रोत्रगोचरः श्रोत्रग्राह्य एव शब्दः (1) शब्दस्वभावश्च मन्त्रः । उपांशुमानसयोश्च जपयोः श्रोत्रग्रहणाभावादशब्दत्वम् (1) अशब्दत्वाच्चामन्त्रत्वं च जपन् कथं फलवान् स्यात्। गृह्यत इति ग्रहणं। श्री अग्राह्य इत्यर्थः। तदेव लक्षणं यस्य शब्दस्य स तथोक्तः। तदतिक्रमेतिप्रसंगात् । श्रोत्रग्राह्यं शब्दं मुक्त्वा मनोजपादेर्ज्ञानात्मकस्य शब्दत्व इष्यमाणे रसादीनामपि शब्दत्वं स्यात्। . नन्वेमपि श्रोत्रगोचरस्य शब्दस्वभावत्वे शब्दत्वसामान्य शब्दस्वभावताप्रसङ्गः।
नेति सिद्धान्त वा दी। न ब्रूमः श्रोत्रगोचरः शब्द एवेति। शब्दस्त्ववश्यन्तल्लक्षणः श्रोत्रग्रहणलक्षण इति ब्रूमः। कस्मात्। तस्य शब्दस्य श्रोत्रग्राह्यत्व