________________
५६३
(२) कुमारिलमत-निरासः ५६३ ।। वा न मन्त्रफलेन युज्यते ।' न हि तदा श्रोत्रेण कंचिदर्थं विभावयामः।
522a न चाशब्दात्मा मन्त्रः।
पारम्पर्येण तज्जत्वात् तद् व्यक्तिः सापि चेन्मतिः । न हि मनसा ध्यायतोऽपि मन्त्राभासा बुद्धिः श्रवणाद् ऋते। ततः शब्दप्रभवत्वात् । सापि शब्दव्यक्तिरेव। एवं अनवस्था स्यात् । शब्दार्थविकल्पानां अपि परम्परया प्रसूतिरस्तीति तेऽपि तथा स्युः। ..
ते तथा स्युस्तदर्था चेदसिद्धं कल्पनान्वयात् ॥३०२॥
म्मुक्त्वा लक्षणान्तराभावात्। तत्रैतस्मिन् शब्दस्वलक्षणे यदि शब्दात्मनां शब्दस्वभावानाम्मन्त्राणामभिव्यक्तिहेतुः शब्दस्वरूपग्राहिज्ञानहेतुः पुरुषः प्रयोक्तेष्यते यस्य फलेन सम्बन्धः। तदानभिव्यक्तश्रुतिविषयाणां । श्रुतिविषयः शब्द: सोनभिव्यक्तो यैः कारणैरिति विग्रहः। तेषां कारणानां प्रयोक्ता। ओष्ठादिस्पन्दमात्रेण व्यापारयिता। उपांशजापी न मन्त्रफलेन यज्यते नापि मनसा जपन मन्त्रफलेन युज्यत। यस्मान्न हि तदा उपांशुमौनजपकाले श्रोत्रेण कंचिदर्थं शब्दाख्यम्विभावयामो गृह णीमः।
मानसोपि जपो मन्त्र इत्याह। न च मान सो विकल्पोऽशब्दात्मा मन्त्रः। 198b शब्दस्य श्रोत्रग्राह्यत्वापौरुषयत्वनित्यत्वेनाभ्युपगमात्। तद्विपरीतत्वाच्च विकल्पस्य।
पारम्पर्येत्यादिना पराभिप्रायमाशंकते। याप्युपांशुमनोजापकाले मन्त्राभासा मतिर्बुद्धिस्सापि तद्वयक्तिः। तस्य शब्दस्य व्यक्तिज्ञानं। कस्मात् (1) पारम्पर्येण तज्जत्वात् । शब्दजातत्वात्। तथा हि तस्य प्राक् शब्दज्ञानमुत्पन्नन्तेन ज्ञानेन चाहितसंस्कारस्य क्रमेण मनोजपे शब्दप्रतिभासोत्पत्तेः।
नेत्यादिना व्याचष्टे । न हि मनसा ध्यायतोपि जपिनो या मन्त्राभासा बद्धिः सां श्रवणाइते। शब्दश्रवणं विना। ततः शब्दप्रभवाच्छब्दादुत्पत्तेस्सापि मनोजपकाले मतिः शब्दव्यक्तिरेव शब्दज्ञानमेव। ततश्च मन्त्रस्वभावत्वात् मनोजपादेः प्रयोक्ता फलवान् स्यादिति भावः। एवमिति पारम्पर्येण मन्त्रत्वेऽनवस्था स्यात्।
तमेवाह शब्देत्यादि। मन्त्रलक्षणाच्छब्दादर्थविकल्पाः शब्दार्थविकल्पाः। तथा हि (1) "अग्नये स्वाहा” (1) इत्युक्ते। अग्निवलद्भासुरादिरूप इत्यादिविकल्पाः कदाचिदुत्पद्यन्ते। तेषामपि परम्परया शब्दप्रसूतिरस्तीति तेपि विकल्पास्तथा स्युर्मन्त्रव्यक्तिलक्षणाः प्रयोगाः स्युः। शब्दप्रभवापि सती या तदर्था