SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ प्रमाणवार्तिकस्ववृत्तिटीका (१।३०२ ) न ब्रूमः सर्वा शब्दप्रभवा बुद्धिस्तद्व्यक्तिरिति । या तद्विषया सा तस्य व्यक्तिः । मनोविकल्पस्य शब्दविषयत्वमसिद्धम् । न हि स्वलक्षणानां विकल्पानां वृत्तिरिति निवेदयिष्यामः । ५६४ तेहि अनपेक्षितवाह्यार्थीप' निधये यथास्वं स्वविकल्पवासनाप्रबोधाद् भवन्ति । बाह्यापायानागमे च भावात् । न हि यो यस्य सत्तोपधानं नापेक्षते' स तस्य हेतुरहेतुश्च कथम् । तस्मान्न मनोविकल्पः शब्दव्यक्तिः, यतः तद्वान् प्रयोक्ता स्यात् । तत्प्रसूता तद्विषया च बुद्धिः तद्व्यक्तिः । तदाश्रयः प्रयोक्तेत्यत्रापि श्रोत्रे 199a स शब्दः अर्थः विषयो यस्या इति विग्रहः । सैव चेन्मतिर्मन्त्रव्यक्तिर्न चार्थविकल्पा ये शब्दविषयाः । असिद्धमिति सिद्धान्त वा दी । शब्दविकल्पस्यासिद्धं शब्दस्वलक्षणविषयत्वं । किं कारणं (1) कल्पनान्वयात् । सजातीयविकल्पहेतुकत्वात् । अध्यारोपिताकारविषया एव मनोविकल्पाः । नेत्यादिना व्याचष्टे । न ब्रूमः सर्वा शब्दप्रभवा बुद्धिस्तद्वयक्तिः शब्दव्यक्तिरिति ( 1 ) किन्तु या तद्विषया शब्दविषया विकल्पबुद्धिः । सा तस्य शब्दस्य व्यक्तिरिति । pit तदेतदसत् । यतो मनोविज्ञानस्य तद्विषयत्वं शब्दविषयत्वमसिद्धं । यस्मान हि स्वलक्षणशब्दानां वृत्तिरिति निवेदयिष्यामः यदि बाह्यर्थो विकल्पानां न हेतुः कथन्तर्ह्यत्पद्यन्त इति ( 1 ) 1 अन आह । ते हीत्यादि । ते हि विकल्पा यथा स्वमिति यस्य यो वासनाप्रबोधो हेतुः । विज्ञानप्रतिष्ठितत्वेनान्तरात् । विकल्पवासनाप्रबोधाद् भवति । पेक्षितो बाह्यार्थोपनिधिः सन्निधानं यैरिति विग्रहः । कस्मात् । बाह्येत्यादि । अपायो निरोधः । अनागमोनुत्पत्तिः । बाह्यस्य निरोधेऽनुत्पत्तौ च विकल्पानाम्भावात्। यतश्चार्थमन्तरेण भवन्ति तस्मान्नार्थहेतवः । किं कारणं ( ( 1 ) न हि यो यस्य सत्तोपधानं सत्तासन्निधानं नापेक्षते सोनपेक्ष्यमाणस्तस्य निरपेक्षस्य हेतुरहेतुश्च विकल्पानां कथम्विषयो नैव । यत एवं न शब्दविषयो विकल्पस्तस्मान्न मनोविकल्पो [मनोजल्या ( ? पा ) दिलक्षण: ] ' शब्दव्यक्तिर्यतो येन । तद्वान् । मनोजपवान् पुरुषः। मन्त्रस्य प्रयोक्ता स्यात् । नैव स्यादिति यावत् । शब्दाभिव्य'क्तिमभ्युपगम्यापि दोषमाह । शब्दप्रसूता तद्विषया च बुद्धिः शब्दव्यक्तिस्तदाश्रयस्तस्या व्यक्तेराश्रयो यतः पुरुषस्तस्मात् प्रयोक्तेत्यत्रापि पक्षे उक्तं । किमुक्तं (1) श्री [त्रप्रयोक्तृत्वप्रसङ्ग इति श्रोता ]पि हि शब्दप्रसूता 1 In the margin.
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy