SearchBrowseAboutContactDonate
Page Preview
Page 583
Loading...
Download File
Download File
Page Text
________________ (२) कुमारिलमत-निरासः ५६५ च प्रसंग इत्युक्तम् । तस्मिन् न ज्ञाने च प्रयोगे शब्दे पुरुषे व्याप्रियते। तस्य ज्ञानजननात् । न पुरुषः शब्दे'। तदात्मनि अनुपकारात्। एवं पुरुषः शब्दानां 522b प्रयोक्तेत्यलौकिकोऽयं व्यवहारः। सर्वथा शब्दस्वभावानां मन्त्राणां प्रयोगात् फलावाप्तौ व्यर्थो मनोजपः। विकल्पस्य शब्दस्वरूपासंस्पर्शात्। (घ) समयकाराणामुक्त्या फलविशेषः स्वसामान्यस्वभावानामेकभावविवक्षया । उक्तः समयकाराणामविरोधो न वस्तुनि ॥३०३॥ समयकारा हि स्वलक्षणं इन्द्रियविषयं सामान्यलक्षणञ्च विकल्पप्रतिभासं यथाव्यवहारं संवृत्या संकलय्य यथासमय अर्थ निष्पादयेदिति समयमारोच यास्तद्विषयाया बुद्धेः स्वसन्तानभाविन्या आश्रयस्तथा च तस्यापि मन्त्रफलेन योगः1 स्यादिति। किं च नित्यानां मन्त्राणां नातिशयोत्पादनं प्रयोगः किन्तु तद्विषयं ज्ञानं प्रयोगः । तस्मिन्न ज्ञाने च प्रयोगेभ्युपम्यमाने शब्दः पुरुषे व्याप्रियते। कथं (1) तस्य पुरुषस्य ज्ञानजननात्। न पुरुषः शब्दे व्याप्रियते। कस्मात् । तदात्मनि नित्ये शब्दात्मनि कथंचिदपि पुरुषेणानुपकारात् कारणात्। अथ च पुरुषः शब्दानां प्रयोक्तेत्यश्लौकिकोयं व्यवहारः। लोके हि यो यत्र व्याप्रियते स तस्य प्रयोक्तेत्युच्यते। ___ सर्वथेत्यादिनोपसंहारः। यदि साक्षाच्छब्दप्रसूता बुद्धिः शब्दबुद्धिः । अथ पारम्पर्येण (1) सर्वथा शब्दस्वभावानां मन्त्राणां प्रयोगात् तद्विषयज्ञानजननात् फलावाप्ताविष्यमाणायां व्यर्थो मनोजपः। किङ्कारणम् (1) मनोजपलक्षणस्य विकल्पस्य शब्दस्वरूपासंस्पर्शात्।। यस्यापि समयात् फलन्तस्यापि कथम्मनोजपो न व्यर्थ इत्याह। स्वस्वभाव: शब्दस्वलक्षणम्विकल्पप्रतिभास्याकारः सामान्यस्वभावन्तेषां स्वसामान्यस्वभावानामेकभावविवक्षया। दृश्यविकल्पयोरेकीकृत्य समयकारणामुक्तेमन्त्रप्रणयनात् मनोजपो व्यर्थः स्यादित्ययमविरोधः। समयकारस्याभिप्रायसम्पादनेन फलनिष्पत्तेः। न तु वस्तुन्यविरोधः किन्तु विरोध एव। तथा हि (1) शब्दस्वलक्षणाद् वस्तुनः फलावाप्ती मनोजपो व्यर्थस्तस्यावस्तुसंस्पर्शात्। समयेत्यादिना व्याचष्टे। शब्दस्वलक्षणं श्रोत्रेन्द्रियविषयं सामान्यलक्षणञ्च विकल्पप्रतिभासं यथाव्यवहारं लोकव्यवहारानतिक्रमेण संवत्या ___संकलय्यति
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy