________________
प्रमाणवात्तिकस्ववृत्तिटीका (१।३०४) यन्ति । एवं न मनोजपादौ दोषः। वस्तुस्वभावात्तु फलोत्पत्तौ प्रतत्स्वभा संस्पर्श न स्यात् । यदुक्तं न वर्णेभ्योऽन्याऽऽनुपूर्वीति ।
श्रानुपूर्व्यामसत्यां स्यात्सरो रस इति श्रुतौ।
न कार्यभेद इति चेद्; न हि सरो रस इत्यादि पदेषु कश्चिद् वर्णभेदः ।
(ङ) वर्णानुपूर्विफलचिन्ता न च व्यतिरिक्तमन्यत्, यतः कार्यभेदः स्यात् । भिन्नां च तयोः प्रतिभा पानुपूर्वीमेव चातुल्यां पश्यामः। न च कारणस्याभेटे कार्यभेदो युक्तः। तस्माद् भेदवती सा यतः प्रतीतिभेदः। सत्यम् ।
आस्ति सा पुरुषाश्रया॥३०४॥
विकल्पबुद्ध्या दृश्यविकल्पयोः शब्दस्वलक्षणसामान्याकारयोरेकीकृत्य समयमारोचयेत् । यो वाचा मनसा चाभिलपनम्मत्प्रणीतस्य मन्त्रस्यानुतिष्ठति तस्यायम्मन्त्रो यथासमयमर्थनिष्पादयेदिति (1) ततो य एनं मन्त्रम्वाचा मनसा चाभिलपति तस्य यथासमयं चार्थं निष्पादयेदिति न मनोजपादौ दोषः। आदिग्रहणादुपांशुप्रयोगादिपरिग्रहः। वस्तुस्वभावात्तु शब्दस्वभावात् मन्त्रात् फलोत्पत्ताविष्यमाणायामतत्स्वभावसंस्पर्शे सति मनोजपादौ न फलं स्यात्।
यदुक्तमित्यादिना पराभिप्रायमाशंकते। यदुक्तम् (1) "वर्णा एव हि मन्त्र" इत्यत्रान्तरे।
न वर्णेभ्योन्या काचिदानुपूर्वीति तत्रोच्यते। आनुपूर्व्यामसत्यां सर इति 199b श्रुतौ रस इति श्रुतौ च न कार्यभेदः' प्रतीतिभेदलक्षणः स्यादिति चेत्। यस्मान्न
हि सरो रस इत्यादि पदेषु कश्चिद्वर्णभेदः। य एव हि वर्णाः सर इत्यत्र पदे। त एव रस इत्यत्र पदे।
न च व्यतिरिक्तमन्यत् पदमस्ति यतः कार्यभेदो बुद्धिभेदलक्षणः स्यात् । अस्ति च कार्यस्य भेदः। यतो भिन्नाञ्च तयोस्सरो रस इति पदयोः प्रतिभा बद्धिम्पश्यामः। आनुपूर्वीमेव चातुल्यां भिन्नान्तयोः पश्यामो वर्णाः पुनस्त एव। न च कारणस्य वर्णस्याभेदे कार्यभेदो बुद्धिभेदलक्षणो युक्तः। तस्माद् वर्णाभेदेप्यस्ति भेदवती प्रतिपदम्भिन्ना। सेत्यानुपूर्वी । यतः प्रतिपदम्भेदवत्या आनुपूर्व्या अयं सर इत्यादिपदेषु प्रतीतिभेदो बुद्धिभेदः।।
सत्यमिति सि द्धा न्त वा दी। सत्यं प्रतिपदम्भेदवत्यस्त्यानुपूर्वी। केवलं