________________
तथा हि ।
(२) कुमारिलमत - निरासः
यो यद्वर्णसमुत्थानज्ञानाज्ज्ञानतो ध्वनिः । 7 जायते तदुपाधि: स श्रुत्या समवसीयते ॥ ३०५ ॥ तज्ज्ञानजनितज्ञानः स श्रुतावपटुश्रुतिः ।
५६७
523a
सानुपूर्वी पुरुषाश्रया पौरुषेयी । अव्यतिरिक्तैव वर्णेभ्यः । वर्णाश्च प्रतिपदमन्ये चान्ये चोत्पद्यन्ते कारणभेदात् । केवलन्तेषु सादृश्यादेकत्वाध्यवसायो
मन्दमतीनां ।
एतदेव दर्शयन्नाह। तथा हीत्यादि । अयमत्र समुदायार्थः । वक्तृस्थेन पूर्वपूर्ववर्णसमुत्थापकचित्तेनोत्तरोत्तरवर्णसमुत्थापकं चित्तञ्जन्यत इति समुत्थापकचित्तक्रमात्। तत्समुत्थाप्यानाम्वर्णानामुत्पत्तिक्रमः क्रमोत्पन्नैश्च वर्णैः स्वविषयाणि क्रमभावीन्येव श्रोत्रविज्ञानानि साक्षाज्जन्यन्ते । क्रमभाविन्य एव वर्णालम्बना: स्मृतयश्च पारम्पर्येण । ततो वर्णानां समुत्थापकज्ञानक्रमाद् या क्रमे कार्यता । स्वविषयज्ञानेषु च या क्रमेण कारणता सैवानुपूर्वीति व्यवस्थाप्यत इति । 4
सम्प्रत्यव ( ? ) पदार्थो विभज्यते ( 1 ) यो ध्वनिर्जायत इति सम्बन्धः । यथा सर इत्यत्र पदे सकारात् परोऽकारः । कुतो जायते ( 1 ) यद्वर्णसमुत्थानज्ञानजाज्ज्ञानतः । पूर्वकालभावी वर्णः सकारः । यश्चासौ वर्णश्चेति यद्वर्णः । यद्वर्णस्य समुत्थानं कारणं समुत्तिष्ठतेनेनेति कृत्वा । यद्वर्णसमुत्थानं । यद्वर्णसमुत्थानञ्च तज्ज्ञानं चेति कर्मधारयः । तस्माज्जातं यज्ज्ञानं । तद् यद्वर्णसमुत्थानज्ञानजं ज्ञानं । तस्माज्ज्ञानतो जायते । सकारस्य समुत्थापकं यज्ज्ञानन्तस्मादकारसमुत्थापकं ज्ञानं यदुत्पन्नन्तेनाकारो जन्यत इत्यर्थः । एवमन्योपि पूर्वपूर्ववर्णसमुत्थानज्ञानजादुत्तरोतरो वर्णो जायत इति योज्यं । एवन्तावद् वक्तृसन्तानस्थस्य समुत्थानज्ञानस्य क्रमाद् वर्णानां क्रमेणोत्पत्तेः कार्यत्वमुक्तं । ते च क्रमेणोत्पन्नाः श्रोतृसन्तानस्थानां स्वविषयज्ञानानां क्रमेण हेतवो भवन्तो ज्ञायन्त इति दर्शयन्नाह । तदुपाधिरित्यादि । पूर्वो वर्ण उपाधिविशेषणं [ यस्योत्तरस्य वर्णस्य ]' स तथोक्तः । स इत्युत्तरो वर्णः श्रुत्या श्रोत्रज्ञानेन समवसीयते गृह्यते । ननु च पूर्वो वर्ण उत्तरवर्णकाले ? नैवास्ति ( 1 ) तत्कथन्तदुपाधि [ पूर्व 2002 वर्णोपाधि ]रुत्तरो वर्णो गृह्यत इति ( 1 )
तेन पूर्ववर्णाविषयेण ज्ञानेन जनितं स्व
आह । तज्ज्ञानजनितज्ञान इति । विषयं ज्ञानं यस्येति विग्रहः ।
1 In the margin.