________________
५६८
प्रमाणवात्तिकस्ववृत्तिटीका (१।३०७) अपेक्ष्य तत्स्मृतिं पश्चात् स्मृतिमाधत्त आत्मनि ॥३०॥ इत्येषा पौरुषेय्यैव तद्धेतुग्राहिचेतसाम् ।
कार्यकारणता वर्णे धानुपूर्वीति कथ्यते ॥३०७॥ चित्तसमुत्थाना वाग्विज्ञप्तिः वर्णपदवाक्यानीति। तत्र सकारसमुत्थापक
एतदुक्तम्भवति। सकारालम्बनं यदा [श्रोत्रविज्ञानं तस्मिन्नेवकाले]' अकारसमुत्थापनचित्तेनाकारो जनितस्तेनाकारस्सकारालम्बनश्च प्रत्ययः समानकालः। तत्र साकारालम्बनेन श्रोत्रविज्ञानेन सहकारिणाऽकारः स्वविषयं ज्ञानं जनयन् पूर्ववर्णोपाधिः प्रतीयत इत्युच्यत इत्यर्थः । तदेवं पूर्वज्ञानेन सहकारिणा जनितात्मज्ञानः। स इत्युत्तरो वर्ण: (1) कीदृशः श्रवणकाले। अपटुश्रुतिरित्यत्वरितं शनैः शनैरुच्चारितो यदा वो भवति। तदाऽपट्वी मन्दचारिणी प्रविभक्तवर्णग्राहिणी श्रुतिः श्रोत्रविज्ञानं यस्य शब्दस्येत्यपटुश्रुतिः । यस्यामवस्थायाम्विभक्ता वर्णा अवधार्यन्त इति यावत्। अति त्वरितन्तूच्चार्यमाणे विभक्तवर्णापरिच्छेदात् कुतः क्रमेण स्मृतिजननमित्यस्य सन्दर्शनार्थं। अपटुश्रुतिग्रहणं। स एवंभूतो वर्णः किंकारीति (1)
आह। अपेक्ष्य तत्स्मृति पूर्ववर्णस्मृति । पश्चादाधत्ते। जनयति स्मृतिमात्मनि। स्वविषये । पारम्पर्येणेति द्रष्टव्यं ।
एतेन च स्वविषयाणि ज्ञानानि प्रति वर्णानां क्रमेण कारणतोक्ता । इत्यक्तेन क्रमेणैषा कार्यकारणता। वर्णेष्विति वर्णाधारा वर्णानामिति यावत् । पौरुषेयेप्येवं । पुरुषकृतैवानुपर्वीति लोके कथ्यते।
किमपेक्षया वर्णानां कार्यता कारणता चेत्याह। तद्धतुग्राहिचेतसामिति । हेतवश्च ग्राहीणि चेति द्वन्द्वः। तेषाम्वर्णानां हेतुग्राहीणीति षष्ठीसमासः। । पश्चाच्चेतःशब्देन विशेषणसमासः । वर्णहेतवः क्रमेण यदि चेतांसि तेषां सम्बन्धन वर्णानां क्रमेण कार्यता। तैश्चेतोभिर्वर्णानाञ्जन्यत्वात् । तेषां वर्णानां ग्राहीणि यानि चेतांसि। तेषां सम्बन्धेन वर्णानां क्रमेण कारणता। वर्णैस्तेषाम्वर्णग्राहिणां चेतसां जन्यत्वात्।
चित्तेत्यादिना व्याचष्टे। चित्तं समुत्थानं कारणं यस्या वाग्विज्ञप्तेस्सा तथोक्ता। वागेव विज्ञप्तिः परविज्ञापनात् (1) सा च त्रिधा लोक इत्याह । व त्यादि वर्णाः पदं वाक्यं चेत्यभिधानं यस्येति विग्रहः। तत्राक्षराणि वर्णाः । अर्थावच्छिन्नो वर्णसमदायः पदं। पदसमुदायो वाक्यं। तत्रेत्यादि सर इत्यत्र
___1In the margin.