________________
(२) कुमारिलमत-निरासः चेतसा समनन्तरप्रत्ययेनाकारोत्थापनचित्तं जन्यते। तथा रेफाकारविसर्जनी-. योत्थापकानि पूर्वपूर्वप्रत्ययानि। '
पदे यञ्च वर्णाः सकारस्तस्मात् परो अकारस्ततो रेफस्तस्मादकारस्तस्मात्परो विसर्जनीय इति। तत्र सकारस्य समुत्थापनं कारणं यच्चेतः। तेन चेतसा समनन्तरप्रत्ययेन। समनन्तरग्रहणमालम्बनप्रत्ययव्यवच्छेदार्थं। अकारोत्थापनचित्तं। अकार उत्थाप्यते जन्यते येन चेतसा। तदुत्पाद्यते। तथेत्युक्तेन क्रमेण' रेफाका- 200b रविसर्जनीया उत्थाप्यन्ते यश्चित्तैस्तानि पूर्वपूर्वप्रत्ययानि। पूर्वं पूर्वं चित्तं प्रत्ययः कारणं येषामिति विग्रहः। तत्राकारसमुत्थापनचेतसा रेफ उत्पद्यते। रेफसमुत्थापनचेतसा समनन्तरप्रत्ययेनाकारः। अकारसमुत्थापनचेतसा विसर्जनीय उत्पाद्यत इति ।
ननु चेदम्पदमुच्चारयामीति विवक्ष या पदमुच्चार्यते। तेनैकयैव विवक्षया वर्णक्रम उच्चार्यते। न तु वर्णानां प्रत्येकं विवक्षापूर्वकत्वमप्रतीतेः (1) तत्कथमुच्यते (1) सकारादिसमुत्थापकचित्तेनाकारादिसमुत्थापकं चित्तं जन्यत इति । ____एवम्मन्यते (1) वर्णोच्चारणे तावदयमेव क्रमः। पदोच्चारणेपि प्रथममयमेव क्रमः (1) तथा हि (1) सकारविवक्षया सकारमुच्चारयत्येवमुत्तरोत्तरवर्णविवक्षयोत्तरोत्तरम्वर्णमुच्चारयति। अभ्यासात्तु पदोच्चारणे पदविवःवैका . कारणमित्येके। ___ अन्ये त्वन्यथा (1) पदोच्चारणे। एकैवविवक्षा कारणमिति (1)
सत्यमेतत्। केवलं सकारोच्चारणकालेऽवश्यं चित्तं विद्यतेऽन्यथा मरणप्रसङ्गात् । तदेव च चित्तं सकारसमुत्थापकमुच्यते तदनन्तरं सकारस्योत्पत्तेः । एवमुत्तरोत्तरवणेषु चित्तसमुत्थापकत्वं द्रष्टव्यमिति। अत्र च "सकारसमुत्थापकचेतसा समनन्तरप्रत्ययेनेत्या"दिना ग्रन्थेनैककर्तृक एव वर्णक्रमोर्थप्रतीतिहेतुर्न भिन्नकर्तृक इत्युक्तम्भवति। तेन यदुच्यते म ण्ड ने न ।
"कार्यकारणभावश्चेत् क्रमस्तद्ग्राहिचेतसां।
तद्धतुरात्मभेदो वा वक्त्तृभे देपि धीभवे"दिति (स्फोटसिद्धिः ३१) तदपास्तं। भिन्नकर्तृकवर्णग्राहिचेतसामात्मभावस्यार्थप्रतीतिहेतुत्वानभ्युपगमात् ।
यच्चाप्युक्त म्म ण्ड ने न (1) “अथ समुत्थापकचित्तक्रमण वर्णक्रमादर्थप्रतीतिस्तथापि स च क्रमो ज्ञापकत्वाज्ज्ञानमपेक्षते। दृश्यते च तिरोहितव्यवहितवक्तृप्रयुक्ताच्छब्दादर्थज्ञानं (1) न च तत्र समुत्थापकचित्तकार्यकारणतां कश्चन निश्चेतुमर्हति। चक्षुरेकत्वे हि सा निश्चीयेतान्तरेण शब्दज्ञानात् । न च तिरोहित
पका
७२