________________
प्रमाणवात्तिकस्ववृत्तिटीका (१।३०७). तद् इमे वर्णा अन्यान्यहेतव स्वकारणानुपूर्विजन्मानः।
श्रुतिकालेऽपि यदा मन्दचारिणः पूर्ववर्णज्ञानसहकारिप्रत्यया पेक्षाः स्वज्ञानं जनयन्ति, तदा पूर्वस्मरणापेक्षा एव स्मृतिमुपलीयन्ते। भिन्नकार्यकारणप्रत्यय
व्यवहितयोर्वक्तुरेकत्वे प्रमाणमस्ती"ति।
तदयुक्तं । यतस्तिरोहितव्यवहितावस्थायाम्वक्तुरेकत्वं कैश्चिदवधार्यत एव। .. तथा हि (1) देवदत्तो मां शब्दयति न यज्ञदत्त इति लोके प्रतीतिपूर्विकैव प्रवृत्तिर्दृश्यते। यत्र नावधारणं न तत्र प्रवृत्तिरितीष्टसिद्धिरेव।
. अपि च स्फो ट वा दिनोपि तिरोहितावस्थादौ कथं स्फोटाभिव्यक्तिर्व्यञ्जकानां वर्णानामेककर्तृकत्वानवधारणात्। अवश्यं च तत्र स्फोटाभिव्यक्ति[रेष्टव्या। अन्यथार्थावगतिर्न स्या]' दिति कैश्चिदवधार्यत एव (1) यत्किञ्चिदेतत् ।
तदिति तस्मादिमे वर्णा अन्यान्यहेतव इति। अन्यदन्यत्समुत्थापकं चित्तं 20ra हेतुर्येषा मित्यर्थः । स्वकारणानि समुत्थापकान्येव ज्ञानानि तेषामानुपूर्वी
क्रमस्तस्या जन्म येषान्ते तथोक्ताः। कारणक्रमात् क्रमभाविनो वर्णा इत्यर्थः । इयता च (1)
यो यद्वर्णसमुत्थानज्ञानजाज्ज्ञातो ध्वनिः (1) इत्येतद्वयाख्यातं ।
[स श्रुत्या समवसीयत] ' इत्येतद् विवृण्वन्नाह। श्रुतीत्यादि। श्रुतिकालेपि श्रवणकालेपि यदा मन्दचारिण इति यदा नातिद्रुतमुच्चार्यन्त इत्यर्थः । पूर्ववर्णालम्बनं ज्ञानन्तदेव सहकारिप्रत्ययस्तमपेक्षन्ते ये वास्ते तथोक्ताः।
त एवंभूताः किं कुर्वन्ति (1) स्वज्ञानं स्वविषयं श्रोत्रविज्ञानं जनयन्ति । तथा हि (1) सकारालम्बनं श्रोत्रविज्ञानं यस्मिन्नेव काले तथैवाकारोप्यकारसमुत्थापनचेतसा जनितस्तेनाकारः सकारालम्बनं च ज्ञानमेककालन्तस्मादकारः । सकारालम्बनज्ञानेन सहकारिणा स्वविषयं ज्ञानं जनयति (1) एवमन्येष्वपि वर्णेष्वयं न्यायो योज्यः।
तदेति यदा स्वविषयमनुभवज्ञानं जनितवन्तस्तदा पूर्ववर्णविषयं यत् स्मरणन्तदपेक्षा एव स्मृतिमुपलीयन्ते स्मृतावारोहन्ति। येनैव क्रमेणानुभूतास्तेनैव क्रमेण स्मर्यन्त इत्यर्थः । स एषो युगपदभावलक्षणो वर्णानां स्वभाव इति सम्बन्धः । कीदृश इत्याह। भिन्नेत्यादि । पूर्वपूर्वविज्ञानजन्यत्वाद् भिन्नः कार्यभावः । उत्तरोत्तरज्ञानस्य हेतुत्वाद् भिन्नः कारणभावश्च येषां सकारादिसमुत्थापक ज्ञानानान्तानि भिन्नकार्यकारणभावानि। तान्येव प्रत्यया हेतवः । तेभ्यो निर्व
1 In the margin.