________________
(२) कुमारिलमत-निरासः
५७१ निर्वृत्तिधर्मा भिन्नजननधर्मा च स हि वर्णस्वभावः पुरुषसंस्कारभेदभिन्नः क्रम इत्युच्यते।
अन्यदेव ततो रूपं तद्वर्णानां पदापदम् । . कर्तृ संस्कारतो भिन्नं सहितं कार्यभेदकृत् ॥३०८॥
त्तिरुत्पत्तिः सैव धर्मो लक्षणं यस्य स्वभावस्येति विग्रहः। एतेन तद्धेतुचेतास्यपेक्ष्य वर्णानां कार्यत्वमुक्तं ।
तद्ग्राहिचेतांस्यपेक्ष्य कारणत्वमाह। भिन्नस्य विज्ञानकार्यस्य निर्वर्तनं जननं स एव धर्मो लक्षणं यस्य स्वभावस्येति विग्रहः। स एवंभूतो वर्णस्वभावः पुरुषसंस्कारभेदभिन्नः पुरुषप्रयत्नभेदभिन्नः क्रम इत्युच्यते ।
ननु क्रमो वर्णानां धर्मस्तेन कथं स एवंभूतो वर्णस्वभाव: क्रम इत्युच्यते।
एवम्मन्यते (1) न युगपदुत्पन्नांनां क्रमोस्त्यप्रतीतेः। तस्माद् युगपदुत्प'न्नानामेव वर्णानां क्रमः । अयुगपदुत्पन्नाश्चेद् वर्णा इष्यन्ते त एव लोके क्रमो न वर्णेभ्योर्थान्तरभतोसावप्रतीतेः। नापि तेषां क्रम एको धर्मोऽसहभावात्। नापि प्रत्येकं धर्मः क्रमोप्रतीतेः। तस्मादयुगपदुत्पन्ना एव वर्णाः क्रम इत्युच्यते इत्युक्तं। केवलमेषां क्रम इति कल्पितोयं व्यवहारः। न च य एव सर इति पदे क्रमो लोके प्रतीयते स एव रस इति पदे। नापि क्रमव्यतिरिक्तें पूर्वापरवर्णानां स्वरूपं । तस्मात् प्रतिपदं वर्णानामन्यदेव स्वरूपं । लोकश्च सर इति पदाद् रसपदस्यान्यत्वमवधारयत्येव। तेन यदुच्यते म ण्ड ने न।
"उत्पत्तिवादिनो वर्णाः कामन्ते सन्तु भेदिनः।
न त्वसाधारणस्तेषाम्भेदोर्थज्ञानकारणं ।" (स्फोटसिद्धिः ३०) तस्यानवधारणात् संकेतकाले' चादृष्टत्वादिति (1)
201b तदपास्तं । यतस्सर इति वर्णक्रमाद् रस इति वर्णक्रमो भिन्न एवावधार्यते। नापिक्रमव्यतिरेकेण वर्णाः प्रतिभासन्ते। तस्मात् क्रमभेदावधारणमेव वर्णभेदावधारणं (1) केवलं रसपदाद् रसपदान्तरस्य भेद: सादृश्यान्नावधार्यते (1) अत एव संकेतकाले दृष्टत्वात् रसपदार्थप्रतिपादकं युक्तम् (।) एवमन्यस्यापि पदस्येति यत्किञ्चिदेतत्।
एतदेव 1 दर्शयन्नाह। अन्यदेवेत्यादि। यतो वर्णानां स्वभावो यथोक्तः क्रम इत्युच्यते ततः कारणात्। तदिति सादृश्यादेकत्वेनाध्यवसितमपि रूपम्वर्णानामन्यदेव पदं पदं प्रतिपदं । किं कारणं (1) कर्तृसंस्कारतो भिन्नं यतः (1) समुत्थापकचित्तमेव कर्तृ तस्य शक्तिभेदाद् भिन्नं। सहितमिति पूर्वोत्तरक्रमेणो